________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिवस परत्वं त्रिरात्रादौ दृष्टम् ॥ २४॥ कोपमिति । राघव सिंहस्य राघवाणां श्रेष्ठस्य । कोषं सुग्रीवविषयकोचं, बलानां सेनानामुपसंग्रह संमेलनम् । दिशः प्रति वानराणां प्रस्थापनम् । पृथिव्याश्च निवेदनम् पृथिव्याः द्वीपसमुद्रादिसंनिवेशकथनम् ॥ २५ ॥ अङ्कुटीयति अङ्गुलीयकदानम् हनुमत इति शेषः । ऋक्षस्य बिलं स्वयंप्रभाविलम्, तस्य तथा संज्ञा । प्रायोपवेशनं-प्रायाय मरणाय उपवेशनं शयनम् । सम्पातेर्जटाय्वयजस्य ॥ २६ ॥ पर्वतेति । पर्वतारोहणं | समुद्रलङ्घनाय महेन्द्रपर्वतारोहणम् । समुद्रवचनाच्चेति चकारेण देवानुज्ञा समुच्चीयते। मैनाकस्य हिमवत्पुत्रस्य गिरेः ||२७|| सिंहिकाया इति । सिंहिकाया hati राघवसिंहस्य बलानामुपसंग्रहम् । दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ २५ ॥ अंगुलीयकदानं च ऋक्षस्य बिल्दर्शनम् । प्रायोपवेशूनं चैव सम्पातेश्चैव दर्शनम् ॥ २६ ॥ पर्वतारोहणं चैव सागरस्य च लंघनम् । समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ २७ ॥ सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् । रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ॥ २८ ॥ आपानभूमिगमनमवरोधस्य दर्शनम् । दर्शनं रावणस्यापि पुष्पकस्य च दर्श नम् ॥ २९ ॥ अशोकवनिकायानं सीतायाश्चैव दर्शनम् । अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम् ॥ ३० ॥ राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् । मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ॥ ३१ ॥
असुरस्त्रियः । लङ्कामलयस्य लङ्काधारपर्वतैकदेशस्य । "मलयः पर्वतान्तरे। पर्वतांशे प्रियोद्याने" इति रत्नमाला । एकस्य हनुमतः ॥२८॥ आपानेति । आपानभूमिः मद्यपानभूमिः । अवरोधस्यान्तःपुरस्य ॥ २९ ॥ अशोकेति । अशोकवनिकायानं हनुमतो अशोकवनिकागमनम् । अभिज्ञानप्रदानं सीतायै अङ्गुलीयकदानम् ॥ ३० ॥ राक्षसीति । राक्षसीनां तर्जनम् । सीतां प्रतीति शेषः । त्रिजटा विभीषणपुत्री, तस्याः स्वप्रदर्शनं रामश्रेयोविषयस्वा वयोः सङ्केतः ॥२४॥ कोषमिति । उपसंग्रहम्-वानरमेलनम् पृथिव्याश्च निवेदनं सुग्रीवेण वानरान प्रति पृथिवीसंस्थानकथनम् ||२५|| अङ्गुलीयकंदानमिति । प्रायेण अनंशनेन वानराणामुपवेशनम् समुद्रसमीपे वासः ॥ २६ ॥ २७ ॥ सिंहिकाया इति । लङ्कामलयदर्शनम् लङ्काद्वीपस्थमलयगिरिदर्शनमित्यर्थः । एकस्य विचिन्त नम् एकस्यासहायस्य विचिन्तनम् ॥ २८ ॥ अवरोधस्य अन्तःपुरस्य ॥ २९ ॥ अभिज्ञानप्रदानम् अभिज्ञायतेऽनेनेत्यभिज्ञारम् अङ्गुलीयकम्, अभिषेकाभ्युदयं रामा
१ दर्शनम् । राक्षसीतर्जनं चैव छायाग्राहस्य दर्शनम् । सिहिकायाति पाठान्तरम् ।
For Private And Personal Use Only