________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥३९॥
बा.रा.भू.स्वार्थेऽण् । पादुकयोः स्थापनं वा ॥ १७॥ दर्शनमिति । अनसूयया अत्रिपत्न्या सहास्यां सहासनम्, सीताया इति शेषः । "आस्या त्वासनमासीनम् - " इत्यमरः । यद्यप्येतद्विराधवधात्पूर्वमेव, तथापि अत्र सर्वत्र क्रमो न विवक्षितः, रामायणप्रतिपाद्यसंक्षेपमात्रे तात्पर्यात् । अङ्गरागस्य चन्दनस्य ॥ १८ ॥ अगस्त्येति । शूर्पणख्या इति ङीबत्रार्थः ॥ १९ ॥ खरत्रिशिरसोरिति दूषणादीनामुपलक्षणम् । उत्थानं निर्गमनम् ||२०|| मारीचस्येति । एवकारः पाद पूरणार्थः । एवमुत्तरत्र सर्वत्र द्रष्टव्यम् ॥२१॥ कबन्धेति । चापीत्येकनिपातः समुच्चयार्थः ॥२२॥ ऋइयेति । ऋश्यमूकस्येति कर्मणि षष्ठी । प्रत्ययोत्पा दर्शनं शरभङ्गस्य सुतीक्ष्णेनाभिसङ्गमम् । अनसूयासहास्यामप्यङ्गरागस्य चार्पणम् ॥ १८ ॥ अगस्त्यदर्शनं चैव शूर्पणख्याश्च दर्शनम् । शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥ १९ ॥ वधं खरत्रिशिरसोरुत्थानं रावणस्य च ॥ २०॥ मारीचस्य वधं चैव वैदेह्या हरणं तथा। राघवस्य विलापं च गृध्रराजनिबर्हणम् ॥ २१ ॥ कबन्धदर्शनं चापि पम्पाया श्वापि दर्शनम् । शबर्या दर्शनं चैव हनूमद्दर्शनं तथा । विलापं चैव पम्पायां राघवस्य महात्मनः ॥ २२ ॥ ऋय मूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ २३ ॥ वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् । ताराविलापं समयं वर्षरात्रनिवासनम् ॥ २४ ॥
दनं सालभेदनादिभिः सुग्रीवस्य विश्वासजननम् । वालिसुग्रीवविग्रहं वालिसुग्रीवयुद्धं वालिसुग्रीवयोर्वैरानुकथनं वा ॥२३॥ वालीति । वालिप्रमथनं वालि वधम्। सुग्रीवप्रतिपादनं सुग्रीवाय राज्यप्रदानमित्यर्थः । ताराविलापं ताराप्रलापम्। समयं शरदि सीतान्वेष्टव्येति रामसुग्रीवयोः सङ्केतम्। “समयः काल सिद्धान्तप्रतिज्ञाशपथेषु च । सङ्केताचारयोश्च ” इति रत्नमाला । ताराविलापसमयमिति पाठे “सर्वो इन्द्रो विभाषयैकवद्भवति" इत्येकवद्भावः । वर्षरात्र निवासनं वर्षे वृष्टिस्तयुक्ता रात्रयो वर्षरात्राः । “रात्राह्नाद्दाः पुंसि" इति पुंलिङ्गत्वम्, तेषु निवासनं निवसनम् | स्वार्थेऽण् । वर्षदिनेष्वित्यर्थः । रात्रिशब्दस्य श्रेष्ठयोरभिषेचनम्, नन्दिग्रामनिवासनं नन्दिग्रामे भरतस्य निवसनम् ॥ १७ ॥ १८ ॥ अगस्त्यसकाशाद्धनुषो ग्रहणम् ॥ १९-२२ ॥ ऋश्यमकस्येति । वालिसुग्रीवविग्रहं तयोर्युद्धम् ॥ २३ ॥ वालिप्रमथनमिति । सुग्रीवप्रतिपादनम् सुग्रीवस्य राज्यसंस्थापनम् । 'ताराविलापं समयम्' इति पाठे शरदि दण्डयात्रा कर्तव्येति रामसुमी विषम० उत्थानम् जानकीहरणोद्योगम् ॥ २० ॥
१ अगस्त्यदर्शनं चैव जटायाराभसगमप् । 'दर्शनं चाप्यगस्यस्य धनुषो ग्रहणं तथा पंचवटयाच गमनं शूर्पणख्याश्च दर्शनम् ॥ इति पाठान्तरम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
टी.चा. कां
सु० ३
॥३९॥