________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यस्वभावताम् । शीलं स्वभाव सद्वृत्ते" इत्यमरः ॥ १० ॥ नानेति । विश्वामित्रसमागमे विश्वामित्रेण रामलक्ष्मणयोः संयोगे सति, अन्या रामचरिता दन्याः । नाना-नानाप्रकाराः चित्रकथाः आश्चर्याविहकथाश्च । जानक्याश्चेति चकारेणोर्मिलादयः समुच्चीयन्ते । धनुषो हरचापस्य विभेदनं भङ्गं च ॥ ११ ॥ ॥ रामेति रामेण परशुरामेण । रामस्य राघवस्य विवादम् । रामेण रामविवादमित्यत्र तृतीयेति योगविभागात्समासः । अतो नैकशेपप्रसक्तिः । दाशरथे। गुणान् अयोध्याकाण्डादौ वृक्ष्यमाणान् । तथेति समुजयार्थः सर्वत्र द्रष्टव्यः । रामस्याभिषेकम् अभिषेकोद्योगम्, कैकेय्या दुष्टभावतां दुष्टहृदयत्वं च ॥३२॥ विघातमिति । अभिषेकस्य रामाभिषेकस्य । विधातं कैकेयी दुष्टहृदयस्वकृतं विघ्नं च रामस्य विवासनं च राज्ञो दशरथस्य शोकेन विलाप प्रलाप नानाचित्रकथाचान्या विश्वामित्रसमागमे । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ ११ ॥ रामरामविवाद च गुणान् दाशरथेस्तथा । तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ १२ ॥ विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ॥ १३॥ प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवाद मृतोपावर्तनं तथा ॥ १४ ॥ गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ १५ ॥ वास्तुकर्म विवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ १६ ॥ पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ॥ १७ ॥
न राज्ञः परलोकस्य स्वर्गस्याश्रयमाश्रयणं च ॥ १३ ॥ प्रकृतीनामिति । प्रकृतीनां प्रजानां विषादं दुःखम् । प्रकृतीनां विसर्जनं वञ्चनेन निर्यापणं च । निषादाधिपसंवादं गुहेन सह संभाषणम् । सुतस्योपावतनं पुनरागमनं च ॥ १४ ॥ गङ्गायाश्चेति स्पष्टम् ॥ १५ ॥ वास्त्विति । वास्तुकर्म शास्त्रोक्तप्रका ग्ण यथोचितमन्दिरनिर्माणम् । विवेशं शास्त्रोक्तवास्तुपूजादिपूर्वकं गृहे प्रविश्यावस्थानम् । रामस्य प्रसादनम्, भरतेनेति शेषः । सलिलक्रियां सलिल दानम् ॥ १६॥ पादुकेति । पादुकाग्र्ययोः पादुका श्रेष्ठयोः । त्रैष्ठयं धृतत्वात् । अभिषेकं राज्यनियन्तृतया स्थापनम् । नन्दिग्रामे निवासनं निवसनम् । विश्लेषान्पर्यवसायिनी प्रीतिविधेयनाम, क्षान्निम् उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते " इत्युक्तरूपाम्, सौम्यताम् निरतिशयप्रियदर्शनताम् ॥ १०॥ ११ ॥ रामति । अभिषेकम अभिषेक सामग्रीम् ॥ १२॥१३॥ प्रकृतीनामिति । प्रकृतीनां वञ्चनापूर्वकं विसर्जनं प्रकृतीर्विसर्जयित्वा गमनम् निषादाधिपसंवादं गुहेन सह संभाषगम सोपानम् ॥ २४॥२५॥ वाविनि। वास्तुकर्म-चित्रकगृहनिर्माणम निवेशनम् तत्र गृहेऽवस्थानम् ॥ १६॥ पादुकेति पादुकाय्याभिषेकम् पादुका
For Private And Personal Use Only