________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. man
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
कीदृशं चरित्रमित्यत्राह- कामार्थेति । कामश्चार्थश्च कामार्थों, गुणशब्देनाप्राधान्यमुच्यते । अप्रधानाभ्यामर्थकामाभ्यां संयुक्तम्, त्याज्यताप्रदर्शनार्थे तत्र तत्रा र्थकामप्रतिपादकमित्यर्थः । धर्मार्थयोर्धर्ममोक्षयोर्गुणोऽतिशयस्तं विस्तृणातीति धर्मार्थगुणविस्तरम् । पचाद्यच्। प्राधान्येन धर्मापवर्गप्रतिपादकमित्यर्थः । "अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने " इति वैजयन्ती । अतएव रत्नाढ्यं समुद्रमिव स्थितम् समुद्रो यथा शङ्खशुक्त्यादियुक्तोऽपि प्राधान्येन रत्नानि वहति तथा स्थितमित्यर्थः । सर्वेषां जनानां श्रुतिमनसी श्रोत्रहृदये हरतीति सर्वश्रुतिमनोहरम्, शब्दमाधुर्याच्छ्रोत्राकर्षकम् अर्थसौष्ठवाच्चित्ताकर्षक | मित्यर्थः ॥ ८॥ यथोद्योगं प्रबन्धनिर्माणमाह-स इति । भगवान् स ऋषिः रघुवंशस्य रघुवंशोद्भवस्य रामस्य । चरितं पूर्वं नारदेन महर्षिणा यथा कथितं येन | प्रकारेणोक्तं तथा चकार || ९ || अथ विस्तरेण ब्रह्मोपदिष्टरीत्या रामचरितनिर्माणं दर्शयति-जन्मेत्यादिना सर्गशेषेण । द्वितीयान्तानां तत्प्रतिपादकपरत्वं कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥ ८ ॥
स यथा कथितं पूर्वं नारदेन महर्षिणा । रघुवंशस्य चरितं चकार भगवानृषिः ॥ ९ ॥
जन्म रामस्य सुमहद्वीर्य सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥ १० ॥
बोध्यम् । वाल्मीकिर्भगवान् ऋषिश्वकारेति वक्ष्यमाणे कर्तृक्रिये अनुषञ्जनीये । जन्मेति । जन्मनः सुमहत्त्वं दशरथ महातपोबललभ्यत्वं विष्णोरखतारत्वं च। वीर्ये ताटकाताटके यादिहननक्षमं बलम् । सर्वानुकूलतां सर्वानुवर्तित्वम् आर्जनमिति यावत् । लोकस्य प्रियतां प्रेमास्पदत्वम् । क्षान्ति अपराधसहिष्णुताम् । सौम्यतां रम्यतामनुयतां वा । "सौम्यः पुमान् बुधे विप्रे त्रिषु स्यात्सोमदैवते । रम्येऽनुग्रे च " इति रत्नमाला । सत्यशीलतां (अर्थवित्) अभिरामस्येत्यनेन रामवृत्तकथनस्य रागप्राप्तत्वं द्योत्यते ॥ ७ ॥ कामार्थेति । कामार्थगुणसंयुक्तम्- कामप्रयोजकगुणसंयुक्तम् । धर्मार्थगुणविस्तरम् धर्मार्थयोरौपयिका ये गुणास्तेषां विस्तरेण प्रतिपादकम् । रत्नाढ्यम्-रत्नतुल्यैः पदैरर्थैराटचं संपूर्णम् । सर्वश्रुतिमनोहरम् सर्वाभिः परजादिस्वर सम्बन्धि नीभिः कान्ताप्रभावतीप्रभृतिभिः द्वाविंशतिश्रुतिभिर्मनोहरम, श्रुतिशब्देन नाडीसमुद्भवस्सुखहेतुर्ध्वनिविशेष उच्यते । यद्रा सर्वश्रुतिमनोहरं सर्वेषां श्रुतीः श्रोत्राणि | यथेति । मनांसि च हरति स्वाभिमुखानि करोतीति तथा । यद्वा सर्वासां श्रुतीनामुपनिषदां मनो हृदयं तात्पर्य हरति गृह्णाति प्रतिपादयतीति तथा ॥ ८ ॥ रघुवंशस्य रघुवंशेऽवतीर्णस्य भगवतो रामस्य ॥ ९ ॥ धर्मवीर्येण स्वेन दृष्टं कृत्स्नं रामचरितं प्रतिपादयिष्यन् “ इष्टं हि विदुषां लोके समासव्यासधारणम्" इति न्यायेन प्रतिपत्तिसौकर्यार्थ संक्षिप्य प्रतिपादयति-जन्म रामस्येत्यादिना । वीर्यम् स्वयमक्षतस्य पराभिभवनसामर्थ्यम्, सर्वानुकूलता इष्टानुवर्तनरूपामप्रियता
For Private And Personal Use Only
टी.बा.क.
म० ३
113411