________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Mस्थित्वा निजगुरुमुद्दिश्य कृताञ्जलिः सन् । धर्पण ब्रह्मप्रसादरूपश्रेयःसाधनेन। गतिं रामादिवृत्तम् अन्वेषते॥२॥ गतिशब्दार्थ विवृण्वन्धर्मेण अन्वेषणफल
माह-रामेति। रामादिभिर्यत्प्राप्तं तत्र विषयेतत्त्वतः तत्त्वेन, सम्प्रपश्यति समन्तात्प्रकर्षेण पश्यति, तत्सर्व विशदतरं पश्यतीत्यनुपज्यते॥३॥किं प्राप्तम्? तत्राइ-हसितमिति । पूर्वोक्तरामादीनां यद्धसितं हासः यच्च भाषितं भाषणम् । भावे क्तः । या च गतिर्गमनं यच्च चेष्टितं चेष्टा, युद्धादिकमिति यावत् ।। तत्सर्व धर्मवीर्येण ब्रह्मवरप्रसादशक्त्या यथावृत्तं तत्त्वेन सम्पपश्यति। अत्र योगजधर्मस्थानीयत्वात् ब्रह्मप्रसादो धर्मशब्देनोच्यते । स च साक्षात्कारहेतुश्चक्षु रादिवदिति प्रमाणतोऽध्यवसीयते ॥४॥नगरनिवासकालिकचरितावलोकनमभिधाय वनवासकालीनवृत्तान्तनिरीक्षणमाचष्टे-स्त्रीति । स्त्री तृतीया यस्य तेन, सीतालक्ष्मणसहितेनेत्यर्थः। वने दण्डकारण्ये चरता सत्यसन्धेन सत्यप्रतिज्ञेन रामेण यत्प्राप्तं तत्सर्वं चान्यवेक्षितं साक्षात्कृतम्, वाल्मीकिनेति शेषः।)
रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥३॥ हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् । तत्सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥४॥ स्त्रीतृतीयेन च तथा यत्प्राप्तंचरता वने । सत्यसन्धेन रामेण तत्सर्व चान्ववेक्षितम् ॥५॥ततः पश्यति धर्मात्मा तत्सर्व योगमास्थितः । पुरा यत्तत्र निवृत्तं पाणा वामलकं यथा ॥६॥तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युतिः। अभिरामस्य रामस्य चरितं कर्तुमुद्यतः ॥ ७॥ धर्मवीर्येणेति सिद्धम् ॥५॥ एवं रामादिवृत्तान्तदर्शनस्य विशदतमत्वमाह-तत इति । ततः अवेक्षणानन्तरम् धर्मात्मा वाल्मीकिः योगं ब्रह्मप्रसादरूपो पायमास्थितः सन् । “योगः मन्त्रहनोपायध्यानसङ्गतियुक्तिषु" इत्यमरः । तत्र रामादौ पुरा यत्रित निष्पन्नं तत्सर्व वृत्तं पाणी आमलकमिव पश्यति स्म॥६॥ अथ दर्शनफलग्रन्थनिर्माणोद्योगमाइ-तदित्यादि, श्लोकद्वयमेकान्दयम् । महाधुतिः रामगुणानुभवजनितहर्षप्रकर्षकृतद्युतियुक्तः स वाल्मीकिन तत्सर्वं रामवृत्तान्तम् तत्त्वतो धर्मेण पूर्वोक्तेन दृष्ट्वा । अभिरामस्थ निरवधिकभोग्यस्य, चरितं चरितविषयप्रबन्धं कर्तुमुद्यतः उद्युक्तोऽभूत् ॥७॥
स्पृश्येति । धर्मेण-चतुर्मुखप्रसादरूपेण, गति रामवृत्तम् ॥२॥ रामलक्ष्मणेत्यादि श्लोकद्वयमेकं वाक्यम् । राज्ञा तत्र-राष्ट्रे । तत्त्वतः यद्वृत्तं जातं धर्मवीर्येण| पाचतुर्मुखप्रसादवलेन यथावत् संप्रपश्यति ॥ ३॥४॥ अयोध्यानिवासकाले यतवृत्तम् तन्निरीक्षणमभिधाय अयोध्यातो निर्गमनानन्तरं वनवासे यद्यूत्तमस्ति तन्निरी
क्षणमाहे-श्रीतृतीयेनेति । द्वितीयो लक्ष्मण इत्यवगम्यते॥५॥ रामनुत्तस्थान्यतोनिरीक्षणमुक्त्वा तस्यैव प्रत्यक्षनिरीक्षणमाह-तत इति । निर्वृत्तम्-जातम्॥६॥ तदिति।
For Private And Personal Use Only