________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.ग.भ.
॥३६॥
गादुत्पन्न इत्यथः । कथमवगम्यत ? अनुव्याहरणात् । अनु पश्चात् शाकानन्तरम् उच्चारणात्. शोके सति जातत्वादित्यर्थः॥१०॥ अथ मुनेः कृतिप्रणी .बा.का. यनविषयसङ्कल्पमाह-तस्येति ।भावितात्मनश्चिन्तितपरमात्मनः, अनेनारम्भकर्तव्यं विनविघातकं मङ्गलं मुनिना आचरितामत्युक्तम्। तस्य वाल्मीके इयं बुद्धिांता । इदंशब्दार्थमाह-कृत्स्रमित्यादिना । सर्व रामायणाख्यं काव्यमीदृशैमानिपादेति शोकप्रकारः श्लोकः। करवाणि इति इयं बुद्धिरित्यन्वयः। इशारति प्रायिकाभिप्रायमेतत् ,वृत्तान्तराणामपि तत्रतत्र प्रयोगात्॥४॥अथ यथासङ्कल्पं काव्यरचनामाह-उदारेति । कीर्तिरस्यास्तीति कीतिमान् । अनेन “काव्यं यशसेऽर्थकृते व्यवहारविंद शिवतरक्षतये। सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे॥” इत्यालङ्कारिकोक्तकाव्यप्रयोजनेप्वस्य यश एव प्रधान प्रयोजनमिति दर्शितम् । काव्यनिर्माणानन्तरं भाविनो यशसः पूर्वभावोत्यातिशयोक्तिरुता । उदारा महती धीर्यस्यासौ उदारधीः । “उदारो।
तस्य बुद्धिरियं जाता वाल्मीकांवितात्मनः । कृत्स्नं रामायणं काव्यमीदशेः करवाण्यहम् ॥४१॥ उदारवृत्नार्थ
पदेमनोरमैस्ततः स रामस्य चकार कीर्तिमान । समाक्षरैःश्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीमुनिः ॥४२॥131 दातृमहतोः" इत्यमरः। तेन कवित्वबीजभूता निपुणतोक्ता । तदुक्तं काव्यप्रकाशे-"शक्तिनिपुणता लोककाव्यशास्त्रायवेक्षणात् । काव्यज्ञशिक्षयाभ्याम इति हेतुस्तदुद्भवे ॥” इति । मुनिः मननशीलः, अनेन विविक्तसेवित्वमरोचकित्वं चोक्तम् । तदुक्तं वामनेन-"द्वये हि कवयः अरोचकिनः सतृणाऽभ्यवहारि-1 णश्च" इत्यादि । तदा ब्रह्मवरप्रदानानन्तरकाले । अनेन कवित्वहेतुभूता शक्तिरुक्ता। यशस्विनोऽपि रामस्य यशस्करम् । तदुक्तं दण्डिना-"आदिराजयशो बिम्बमादर्श प्राप्य वाङ्मयम् । तेपामसनिधानेऽपि न स्वयं पश्य नश्यति॥” इति । इतरकीर्त्यपेक्षया काव्यनायकत्वकृता कीतिरनुपमेन्यर्थः । काव्यम्। कविलोकोत्तवर्णननिपुणः, कवेः कर्म काव्यं, शब्दार्थयुगलम् । तथोक्तम्-“सगुणौ सालङ्कारौ शब्दार्थों दोषवर्जितौ काव्यम् ।" इति । अत्र काव्य शब्देन काव्यसन्दर्भरूपं महाकाव्यमुच्यते। तल्लक्षणमुक्तं काव्यादर्श-"सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीनमस्किया वस्तुनिर्देशो वापि तन्मुखम् । इतिहासकथोद्भूतमितरद्वारसंश्रयम् । चतुर्वर्गफलायत्तं चतुरोदात्तनायकम् । नगराणवशैलतुंचन्द्राकोंदयवर्णनैः । उद्यानसलिलक्रीडामधुपान रतोत्सवैः । विप्रलम्भर्विवाहेश्च कुमारोदयवर्णनेः। मन्त्रद्यूतप्रयाणाजिनायकाभ्युदयैरपि । अलंकृतमसंक्षिप्त रसभावनिरन्तरम् । सगैरनतिविस्तीणः श्राव्य नस्येनि । रशः मानिषादेनि लोकप्रकाः॥४१॥ उदारवृत्तार्थपढ़ेः प्रसिद्धः । उदारधीः महाबुद्धिः ॥ ४ ॥
वा
For Private And Personal Use Only