________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
येभ्यो मिश्रप्रवन्धेभ्यो नाटकादिभ्यश्च व्यावृत्तिरुता ॥३६॥ यशोऽपि काव्यनिर्माणप्रयोजनमित्याह-यावदिति। गिरयः सरितश्च महीतले भूतले यावती स्थास्यन्ति तावद रामायणकथा रामायणरूपा कथा लोकेषु सप्तसु प्रचरिष्यति । यावत्त्वत्प्रबन्धप्रचारस्तावत्तव यशो भविष्यतीति हृदयम् ॥३६॥ यशसः स्वतः पुरुषार्थत्वात्तत्फलमाह-यावद्रामेति । किंच त्वत्कृता रामस्य कथा यावत्प्रदरिष्यति तावन्मल्लोकेषु मध्ये यावच्छरीरपातम् अधः भूमी तदुपरि ऊर्ध्वं च निवत्स्यसि ॥३७॥ इत्युक्त्वेति । तत्रैव आसन एव ॥३८॥ तस्येति । ततः मुनिविस्मयानन्तरम् । सर्वे तस्य वाल्मीकेः शिष्या मुहु मुहुः प्रीयमाणाः सन्तः, इमं मानिषादेति श्लोकं पुनर्जयः । भृशं विस्मिता अन्य तं विस्मिताः सन्तः। अव्ययमात्रस्य समासे तु लोपः' इति मलोपः। प्राहुश्च, अन्योन्यमिदमद्भुतमिति प्राहुश्चेत्यर्थः । आश्रम एव स्थिताभ्यां कुशलवाभ्यां भरद्वाजेन चात्र बहुवचनम्॥३९॥ समेति । यसमाक्षरिति विषम
यावस्थास्यन्ति गिरयः सरितश्च महीतले । तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥ ३६ ॥ यावद्रामायणकथात्वत्कृता प्रचरिप्यति । तावदूध्वमश्च त्वं मल्लोकेषु निवत्स्यसि ॥ ३७॥ इत्युक्का भगवान ब्रह्मा तत्रैवान्तरधीयत। ततः सशिष्यो वाल्मीकिमुनिविस्मयमायया ॥ ३८॥ तस्य शिप्यास्ततः सर्वे जगुः श्लोकमिमं पुनः । मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ ३९ ॥
समाक्षरेश्चतुर्भिर्यः पादैीतो महर्षिणा । सोऽनुल्याहरणायः श्लोकः श्लोकत्वमागतः ॥ ४०॥ वृत्तव्यावृत्तिः । चतुभिरित्यर्धसमवृत्तव्यावृत्तिः । पादश्चतुर्थांशः महर्षिणा, गीतः उक्तः स श्लोकः अनुव्याहरणात शिष्यैः पुनः पुनर्व्यवह्रियमाणत्वात् । भूयः श्लोकत्वमागतः इति । पूर्व श्लोकलक्षणलक्षितत्वात श्लोकतं गतः, संप्रति शाक्यमानत्वात् पुनः श्लोकत्वं गत इत्यर्थः । शोकःश्लोकतमागतः इति पाठे-शोककृतश्लोक एव शोक इत्युच्यत इति ज्ञेयम् । यः श्लोकः महर्षिणा समाक्षरेश्चतुभिः पार्बद्धः श्लोकः क्रौञ्चीविषयः तादृशश्लोकत्वमागतः, स शोक नान्यथा भविष्यति, किन्तु सत्यव भविष्यतीति ध्वनितम् ॥३३-३६॥ यावदिति । तावत नावकालपर्यन्तम् । ऊमधश्च ये मल्लोकाः मया सृष्टाः लोकाः तेषु सर्व लोकेषु अप्रनिहतगनिम्मन सवरिप्यसि. ततःपरं मुक्ति प्राप्स्यसीत्यर्थः ॥३॥३८॥ तम्यति । प्राहुश्च-पठन्ति च. पाठेन आनन्दं चान्वभूवन्नित्यर्थः ॥३९॥ समेति । अनन्याहरणात्पुनः पुनः पाठात । ओकायोकत्वमागत इति श्लोकः धोकन्वेन प्रतिवद्रोऽभवन । मुहर्मुहुः शिष्यैः पठिनत्वात श्लोकःश्लोकत्वं प्राप्त इत्यर्थः ॥४०॥
For Private And Personal Use Only