________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा,रो.भ.शदर्शिताः। नायकगुणवर्णनेन हि काव्यं प्रथते । उक्तं हि भोजेन-"कबेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति । नायको यदि वयेत लोकोत्तरगुणोत्तरः॥" टी.पा.का.
इति । नायकगुणास्तु-"महाकुलीनतौज्ज्वल्यं महाभाग्यमुदारता । तेजस्विता विदग्धत्वं धार्मिकत्वादयो गुणाः॥” इत्युक्ताः। तत्र धर्मात्मन इत्यनेन । धार्मिकत्वमुक्तम् । लोके लोकमध्ये गुणवतः बहुगुणकस्य, अनेन उदारतोक्ता । रामस्येत्यनेन तेजस्वित्वमौज्वल्यं च । धीमत इत्यनेन पण्डित त्वम्, धीरस्येत्यनेन वसुन्धराधुरन्धरत्वरूपं महाभाग्यम् । अन्यद्गुणशब्देन ज्ञेयम् । एवंभूतस्य रामस्य वृत्तं चरित्रं "वृत्तं पद्ये चरित्रे च" इत्यमरः। यथा येन प्रकारेण नारदात्ते त्वया श्रुतं तेन प्रकारेण कथय, संक्षेपेण कथयेत्यर्थः ॥३२॥ पुनर्विस्तरेण रामचरित्रवर्णनं नियोक्ष्यमाणस्तद्विपयज्ञानलाभ मनुगृह्णाति-रहस्यमित्यादिना, श्लोकद्वयमेकवाक्यम् । धीमत इति रहस्यवृत्तसंभवहेतुतयोक्तम् । सुमित्राया अपत्यं पुमान्सौमित्रिः । बाह्यादित्वादि ।
रहस्यं च प्रकाशं च यवृत्तं तस्य धीमतः । रामस्य सहसौमित्र राक्षसानां च सर्वशः ॥ ३३ ॥ वैदेह्याश्चैव यवृत्तं प्रकाशं यदि वा रहः । तच्चाप्यविदितं सर्व विदितं ते भविष्यति ॥ ३४ ॥
नते वागनृता काव्ये काचिदत्र भविष्यति । कुरु रामकथा पुण्यां श्लोकवद्धां मनोरमाम् ॥ ३५॥ सह सौमित्रः सौमित्रिसहितस्य धीमतस्तस्य रामस्य रहस्यमानेतरविदितं च, प्रकाशं सर्वविदितं च. यदृत्त राक्षसानां रावणादीनां च, सर्वशः सर्व । प्रकारं रहस्यप्रकाशरूपं यदृत्तं तत् वैदेयाः सीतायाश्च । अपिशब्दाद्भरतादीनां च, प्रकाशं यदि वा रहो रहस्यं वा यवृत्तं तच्च सर्वमविदितमपि नारदमुई खेनाज्ञातमपि ते विदितं भविष्यतीति योजना ॥३३॥३४॥ एवं यथार्थदर्शिवमनुगृह्य यथार्थवादित्वमनुगृह्णाति-न त इति । अत्र करिष्यमाणे काव्ये तेवाकाचिदपि, किश्चिदपि वाक्यमित्यर्थः । अनृता बाधितार्था न भविष्यति । यद्वा वाक् पदम्, कदाचिदपि अनृता दुष्टा न भविष्यति । तेन काव्य दोषत्वेनोक्तपदवाक्यतदर्थदोषशून्यत्वमुक्तम् । अतः रामकथां रामविषयप्रबन्धकल्पनां कुरु । काव्यनिर्माणप्रयोजनमाह-पुण्यां पापहराम् ॥३५॥ प्रयोजनान्तरमाह-मनोरमां शब्दश्रवणसमनन्तरमेव विगलितवेद्यान्तरभानन्दं जनयन्तीमित्यर्थः । श्लोकबद्धामित्यनेन गद्यप्रबन्धेभ्यो हर्षचरितजाती। द्वितीयवाक्यस्य नारदोक्तिविशेषपरतेत्यपौनरुत्यम् ॥ ३१ ॥ ३२ ॥ रहस्यं चेति । अनेन तत्करणयोग्यतादानम् तेन मानिषादेतिवदवशानिस्मृतापि तव वाक
For Private And Personal Use Only