________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
न्वयः । "व्यवहिताश्च" इत्युपसर्गस्य व्यवहितप्रयोगः॥२९॥ तमिति। ततः मनसि श्लोकपाठश्रवणानन्तरम्, मुनिपुङ्गवं प्रहसन मनियोगेन स्वजिह्वाग्रे ऽवतीणां सरस्वतीमयं न जानातीति प्रहसनुवाच । मानिषादेत्यस्य श्लोकत्वनिश्चयं द्रढयति-श्लोक इति । त्वया बद्धो मानिषादेत्यादिः श्लोक एव । अत्र श्लोकविषये विचारणा चिन्ता न कार्या ॥३०॥ तनि-प्रहस्य मन्मुखेन श्रीरामायणप्रवर्तनरूपं भगवदनुग्रहमयं न जानातीति प्रकृष्टं हामं कृत्वा श्लोक एब यशोऽभिव्यञ्जकं पद्यमेव न तु केवलपदसमुदायो नापि केवलनिषादशापरूपार्थश्च ॥ ३० ॥ अकारणकार्योत्पत्तिकृतविस्मयं वारयति-मदिति । हे ब्रह्मन् ! ते इयं सरस्वती मानिषादेत्यादिरूपा मच्छन्दादेव मदभिप्रायादेव, न तु कारणान्तरात् प्रवृत्ता । प्रवर्तनप्रयोजनमाह-रामस्येति । हे ऋषिसत्तम नानृषिः कुरुते काव्यम्" इत्युक्तरीत्या प्रतिलन्धकाव्यनिर्माणशक्तिक! सर्व रामस्य चरितं रामचरितविषयप्रबन्धं कुरु । ईदृशैः श्लोकैरिति शेषः ।
तमुवाच ततो ब्रह्मा प्रहसन मुनिपुङ्गवम् । श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥३०॥ मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती। रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ॥ ३१ ॥
धर्मात्मनो गुणवतो लोके रामस्य धीमतः। वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रतम् ॥ ३२ ॥ इंदृशैः करवाण्यहमित्यनुवादात् ॥३१॥ तनि०-मच्छन्दात् भगवच्छन्दानुवृत्तमत्सङ्कल्पादेव, न तु घुणाक्षरन्यायात् । प्रवृना “स्वयमेवागता यग" इति। पिस्वारसिकतया प्रवृत्ता। इयं रसभावालङ्कारवस्तुभेदभिन्नध्वनिसमुदायाश्रयतया प्रवृत्ता सरस्वती " मृगती" इति धातोरुत्पन्नः सरश्शब्दः प्रवाह वर्तते । सरोऽस्यास्तीति
सरस्वती, तेन अनर्गलप्रवाहतया सर्वतोमुखत्वमुक्तम्।रूढ्या देवताविशेषोक्तिः । वागधिष्ठानदेवतैव जिह्वाग्रे वर्तत इति भावः । मरस्वतीत्यन्तवाहिनीत्वप्रतीत्या काव्य स्यानेकध्वनिगर्भितत्वं द्योत्यते । रामस्य रमत इति रमन्तेऽत्रेति च स्वयमानन्दपूर्णतया स्वतररमयितृत्वेन च प्रसिद्धस्य । एतेन "नायका यदि वयेत लोकोत्तरगुणानरः" इति प्रसिद्धलोकानरनायकत्वं योत्यते । कृत्वं चरितं रहस्यप्रकाशात्मकं सर्व चरितं वं कुरु गममन्त्रानुसन्धानजनितजन्मपरिशुद्धिस्त्वमेव कुर्वित्यर्थः । ऋषि सचम ! जन्मान्तरसहस्रतपोध्यानादिपरिपक्वकषायतया निष्पन्नभगवद्भक्तिपरीवाहप्रवृत्तरामावताररहस्यज्ञानेन चिकार्षितप्रबन्धे मामर्थ्य तवैवास्तीति भावः ॥ ३३ ॥ एवं सामान्येन रामचरितविषयप्रबन्धनिर्माणमनुज्ञाय संक्षेपकरणमादिशति-धर्मात्मन इति । अत्र विशेपणैः प्रबन्धनायकस्य रामस्य नायकगुणाः तमिति । प्रहसन मदाज्ञानुसारेणावतीर्णा सरस्वती न जानातीति हासं कुर्वन ॥ ३० ॥ मच्छन्दादिति । मच्छन्दात मम सङ्कल्पादेव, न तु स्वतः । रामचरितं त्वया प्रबन्धमुखेन प्रवर्तनीयमित्येवंरूपान्मदीयसङ्कल्पादित्यर्थः । रामस्य चरितं कुरु, रामस्य वृत्तं कथयेत्यत्र प्रथमवाक्यस्य रामचरितकरणमात्रपरत्वम्,
For Private And Personal Use Only