________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भू.
॥३४॥
अनामयं कुशलं पृष्ट्वा च पूजयामासेति योजना । प्रणामशास्त्रं तु-"मनोबुद्धयभिमानेन सह न्यस्य धरातले । कूर्मवच्चतुरः पादान शिरस्तत्रैव टी.बा का पञ्चमम् । प्रदक्षिणसमेतेन ह्येवंरूपेण सर्वदा । अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतः प्रभोः॥” इति। यद्वा तमेनं देवं विधिवत्प्रणम्यानामयं पृष्ट्वा च स२ पाद्याासनवन्दनैः पूजयामास । “वदि अभिवादनस्तुत्योः" इति धातुः ॥ २५ ॥ अथेति सार्घश्लोक एकः । अथ पूजानन्तरम् । भगवान ब्रह्मा परमाचिते परमं यथा भवति तथा वाल्मीकिनाचिते ब्रह्मोपवेशार्थ पूजिते, आसने विष्टरे उपविश्य स्थित्वा । महर्षय वाल्मीकये। आसनम् उपवेशनं |संदिदेश आज्ञापयामास । सोऽपि ब्रह्मणा समनुज्ञातः सन्, आसने उचितनीचासने उपाविशत् । आसनानुज्ञानं लोकहितार्थमनेन काव्यं कारयितुम् ।। "वाल्मीकये महर्षय" इत्यत्रायुजि पादे पथ्यावक्षस्य गणनियमाभावात्तथाकम् । नन्वर्धत्रयकरणम् “ईदृशैः करवाण्यहम्" इत्यनेन विरुध्यते । मैवम्
अथोपविश्य भगवानासने परमार्जिते । वाल्मीकये महर्षये सन्दिदेशासनं ततः । ब्रह्मणा समनुज्ञातः सोऽप्यु पाविशदासने॥२६॥ उपविष्टे तदातस्मिन् साक्षाल्लोकपितामहे । तद्गतेनैव मनसा वाल्मीकिानमास्थितः ॥२७॥ पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना । यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ॥२८॥ शोचन्नेव मुहुः क्रौञ्चीमुप
श्लोकमिमं पुनः। जगावन्तर्गतमना भूत्वा शोकपरायणः॥२९॥ लखकदोषणार्धान्तरपतनसम्भवात् ॥२६॥उपविष्ट इति । लोकपितामहे तस्मिन् साक्षात्प्रत्यक्षतया उपविष्टेऽपि तदा तद्गतेन कौश्चहननगतेन मनसा ध्यानमास्थितः तद्विषयचिन्तामकरीत्॥२७॥पापात्मनेति । वरग्रहणबुद्धिना वैरेण कौञ्चग्रहणबुद्धिना पापात्मना पापस्वरूपेण व्याधेन कष्टं कुत्सितं कर्म कृतम् । कथमित्यवाह-य इति । यो व्याधः तादृशं रतिलालसमित्यग्राह्यत्वोक्तिः। चारुवं रम्यरतिकूजितं क्रौञ्चम् अकारणात् निष्कारणम् "निमित्त। कारणहेतूनां प्रयोगे सर्वासांप्रायदर्शनम्" इत्युक्तेः पञ्चमी । हन्यात हन्तुं शक्नुयात् । शकि लिङ् ॥२८॥ शोचन्निति । शोकपरायणः क्रौञ्चवधदर्शनेन | दुःसपरवशः पुनः कोच्ची गतमना भूत्वा, क्रौञ्ची विचिन्त्येत्यर्थः । मुहुः शोचन्नेव वाल्मीकिः इमं मानिषादेत्यादिश्लोकम् अन्तः मनसि उपजगावित्य ।
अथेति । लोकहितार्थ कायं कारयितुमिच्छन् आसनं दलवान ॥२६॥ उपविष्ट इति । तद्गतेन-ौधगतेन ॥२७॥ पापात्मनेति । हन्यात हन्तुं शक्नुयात् । अका कारणात कारण बिना ॥८॥ शान्निति । अन्तर्गतमना हड्ने अवशोत्पन्नश्लोकार्थ एव निवेशितचित्त इत्यर्थः । उपश्लोकम् उपशब्दस्य जगावित्यनेन सम्बन्धः॥२९॥
For Private And Personal Use Only