________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वान् अवधृतवान् वा । "श्रुतं शास्त्रावधृतयोः" इत्यमरः । धृतगुरुश्लोक इत्यर्थः । मुनिर्मननवान् भरद्वाजः भरद्वाजाख्यः शिष्यः पूर्ण जलपूर्ण कलश मादाय पृष्ठतः पश्चादनुजगाम, अनुगमनको पृष्ठत इत्युक्तिरव्यवधानसूचनार्था ॥ २१ ॥ स इति । स वाल्मीकिः शिष्येण सहाश्रमपदमाश्रमस्थानं प्रविश्य धर्मवित् कृतदेवपूजादिधर्मः उपविष्टः कृत सुखासनः सन् ध्यानम् अवशोत्पन्न श्लोकविषयचिन्तामास्थितः प्राप्त एव सन् अन्याः कथाः पुराण पारायणानि चकार ॥ २२ ॥ आजगामेति । लोककर्ता लोकस्रष्टा प्रभुः स्वामी चतुर्मुखः वेदचतुष्टयोच्चारणोपयोगिमुखचतुष्कः महातेजाः महा प्रभावो ब्रह्मा, सुनिपुङ्गवं नारदोक्तवैभवं वाल्मीकिं द्रष्टुं कुतूहलात्स्वयमाजगाम । स्वस्थानस्थित एव रामायणप्रवर्तनसमर्थोऽप्यादरातिशयेन स्वयमेवा जगामेत्यर्थः ॥ २३ ॥ वाल्मीकिरिति । अथ ब्रह्मागमनानन्तरम् तं ब्रह्माणं दृष्ट्वा सहसा उत्थाय " ऊर्ध्वं प्राणा युत्क्रमन्ति यूनः स्थविर आगते । प्रत्यु
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥ २२ ॥ आजगाम ततो ब्रह्मा लोककर्त्ता स्वयं प्रभुः । चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥ २३ ॥ वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥ २४ ॥ पूजयामास तं देवं पाद्यार्थ्यासनवन्दनैः । प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम् ॥ २५ ॥
Acharya Shri Kalassagarsuri Gyanmandir
त्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥” इति वचनात् स्वप्राणा उत्क्रामेयुरिति सहसोत्थायेत्यर्थः । परमविस्मितः सन् । वाग्यतः यतवाक्। आहि ताग्न्यादित्वात् परनिपातः । प्रयतः नियतमनस्कः । प्रकृष्टः अञ्जलिर्यस्यासौ प्राञ्जलिः स च भूत्वा तस्थौ स्थितवान् ॥ २४ ॥ तनि० – परमविस्मितःप्रथममतर्कितं नारदागमनम् ततो लोकोत्तरविषयप्रश्नः, तदनुरूपसुतरम्, अतर्कितमेव शकुनमिथुनदर्शनम्, तत्र च करुणारसोदयः । एतत्सर्वं देवतन्त्रमिति विस्मितः, अनन्तरमतर्कितचतुर्मुखागमनेन परमविस्मितः ॥ २४ ॥ पूजयामासेति । मुनिः तं देवं ब्रह्माणं पाद्यार्थ्यासनवन्दनैः पाद्यं पादोदकप्रदानम्, अर्ध्या अर्धजल समर्पणम्, वन्दनं स्तुतिः एतैरुपचारैः पूजयामास । एनं ब्रह्माणम् । अन्वादेशे इदम एनादेशः । विधिवत् शास्त्रोक्तरीत्या प्रणम्य अव्ययम् अविच्छिन्नम्, स प्रविश्येति । ध्यानं क्रौञ्चवधचिन्ताम् एतच्छोकविषयचिन्तां वा ॥२२॥ आजगामेति । तं मुनिपुङ्गवं शापवाक्यवशात् श्लोक इत्यनूक्तवन्तम् ||२३|| वाल्मीकिरिति । वाग्यतः यतवाक् ||२४|| पूजयामासेति । पाद्यार्थ्यासनवन्दनैः अत्र बन्दनशब्दः स्तुतिपरः । अनामयं कुशलम्, अव्ययं देवम्, अतः प्रणम्येत्यनेन न पौनरुत्यम् ॥ २५ ॥ ॥
For Private And Personal Use Only