________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
॥३३॥
भवतु श्लोकलक्षणलक्षितत्वात श्लोकशब्दवाच्यो भवतु । नान्यथा श्लोकादन्यः केवलपदसन्दर्भो न भवति इति मतिं चकारेति पूर्वेणान्वयः ॥ १८॥Mटी.वा.का ननि-अक्षरैः प्रतिपादमष्टभिरक्षरैः समः, तेन वर्णाधिक्यादिदोषराहित्यं व्यञ्जितम् ॥१८॥ शिष्यस्त्विति । शिष्यः भरद्वाजः तस्य मुनेव॒वतः तस्मिन्मुनौ ब्रुवति । स०२ सति । “यस्य च भावेन भावलक्षणम्" इत्यस्मिन्नर्थे षष्ठी।अनुत्तमं सर्वरामायणार्थसंग्रहरूपत्वेन स्वापेक्षयोत्तमान्तररहितम् । वाक्यं मानिपादेत्यादिकं |संहष्टः सन् प्रतिजग्राह, वाग्विधेयं चकारेत्यर्थः । गुरुवाल्मीकिस्तस्य तुष्टोऽभवत्, वश्लोकधारणात्तस्मिन् प्रीतोऽभवदित्यर्थः ॥१९॥ स इति । ततः शिष्यावेपयसन्तोपानन्तरम् । स मुनिः तस्मिन् तीर्थ "अकर्दममिदं तीर्थम्" इत्यादिना वणिते तीथें । यथाविधि विधिमनतिक्रम्याभिषेकं माध्याह्निक नानं कृत्वा तमेवार्थमवशात् श्लोकोत्पत्तिरूपमेवार्थ चिन्तयन्सन्नुपावर्तत आश्रममागच्छत् । अभिषेकविधिस्तु व्यासस्मृती विशेपतो दर्शितः-"ततो
शिष्यस्तु तस्य अवतो मुनेाक्यमनुत्तमम् । प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥ १९॥ सोऽभिषेकं ततः कृत्वा तीर्थ तस्मिन् यथाविधि। तमेव चिन्तयन्नर्थमुपावतेत वै मुनिः॥ २० ॥
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान मुनेः। कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥२१॥ मध्याह्नसमये सानार्थ मृदमाहरेत् । पुष्पाक्षतान् कुशतिलान् गोमयं गन्धमेव च । नदीषु देवखातेषु तटाकेषु सरस्सु च । वानं समाचरन्नित्यं नदी प्रस्रवणेषु च । मृदेकया शिरः क्षाल्य द्वाभ्यां नाभस्तथोपरि । अधश्चतसृभिः क्षाल्यं पादौ पड्भिस्तथैव च । मृत्तिकाच समादिष्टा त्वामलकमात्रतः। गोमयस्य प्रमाणं तत् तेनाङ्गलेपयेत्ततः। लेपयेदथ तीरस्थस्तलिङ्गंनैव मन्त्रतः । प्रक्षाल्याचम्य विधिवत्ततःसायात्समाहितः । अभिमंत्र्य जलं मन्त्र रब्लिङ्गवारुणः शुभैः । आपो नारायणोद्भूतास्ता एवास्यायनं पुनः । तस्मान्नारायणं देवं स्रानकाले स्मरेदुधः । प्रेक्ष्य सोङ्कारमादित्यं विनिमजे जलाशये । अथोपतिष्टेदादित्यमूर्वं पुष्पं जलान्वितम् । प्रक्षिप्यालोकयेद्देवमृग्य जुःसामरूपिणम् ॥" इत्यादि ॥२०॥ तनि-नमेवार्थं शापापदेशेन प्रत्र नम्य वाक्यस्य व्यञ्जितं लोकोनरचमत्कार लक्ष्मीपतिप्रतिष्ठारूपम् ॥२०॥ भरद्वाज इति । ततः मुनेः उपावर्तनानन्तरं विनीतः विनयसंपन्नः श्रुतवान् शास्त्र
प. ॥३३॥ नन्त्रीलयसमन्वितः, तन्ध्यामारोप्य वाद्यैस्सह गातुं योग्य इत्यर्थः । शोकार्तस्येति । श्लोको भवतु श्लोकत्वेन प्रथयताम् ॥ १८॥ शिष्य इति । मुनेर्वाक्यं मानि शापादेति शापलोकम् । प्रतिजग्राह गृहीतवान् ॥ १९ ॥ स इति । तमेव चिन्तयत्रर्थमवशात श्लोकोत्पनिम्पमर्थम् । उपावर्तत-न्यवर्तत ॥२०॥२१॥
For Private And Personal Use Only