________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इति पूर्वाचार्या वर्णयन्ति । तथाहि-निषीदन्त्यस्मिन्निति निषादो निवासः। अधिकरणे घामा लक्ष्मी,तस्था निषादो मानिषादः श्रीनिवासः, तत्र सम्बुद्धिः हे श्रीनिवास ! त्वं शाश्वतीः समाः सर्वकालं प्रतिष्ठां माहात्म्यमगमः गच्छ। लकारव्यत्ययः । यद्यस्मात कौश्चमिथुनात् राक्षसमिथुनाद्रावण मन्दोन्दरीरूपात् कामेन मन्मथेन मोहितं सीतापहारमकं रावणमवधीः, रावणं हत्वा कृतत्रैलोक्यत्राणस्त्वं यावत्कालं विजयीभवेत्यर्थः । वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः। एवमनेन श्लोकेनेष्टदेवतास्मरणरूपं मङ्गलमाचरितम् । “काव्यार्थसूचनं कैश्चिन्नान्यामेव निरूप्यते” इति वचनादस्मिन्नेव श्लोके वक्ष्यमाणकाव्यार्थः संक्षेपेण दर्शितः। तथाहि-"मानियाद " इत्यनेन सीतापरिणयपर्यवसायिनी बालकाण्डकथोरोधिता । "प्रतिष्ठां त्वमगमः" इत्यनेन पितृवचनपरिपालनप्रतिष्ठाभिधायिन्ययोध्याकाण्डकथावेदिता । "शाश्वतीः समाः" इत्यनेन ऋषिगणविषयप्रतिज्ञानिवहणेन रामस्य प्रतिष्टा नुवृत्तिमभिधत्यारण्यकाण्डकथा सूचिता। "क्रुञ्चगतिकौटिल्याल्पीभावयोः" इत्यस्माद्धातोः "ऋत्विक-"इत्यादिना किन्निपातनात् नलोपः संयोगान्त लोपश्च न भवति । कुञ्चेव कौञ्चः। स्वार्थे अण् । तथा च कौञ्चयोः कुटिलयास्तिरश्चोस्तारावालिनोमिथुनादेकं काममोहितं सुग्रीवभार्यापहार वालिन मवधीरिति किष्किन्धाकाण्डकथाभिहिता । कौञ्चौ अल्पीभूतौ कृशाविति यावत्। तयोरन्योन्यविरहक्लेशकशीयसोः सीतारामयारेकमवयवं सीतारूप मवधीः भृशं पीडितवानसीति सीताविरहदुःखातिशयवर्णनपरा सुन्दरकाण्डकथा बोधिता। क्रौञ्चौ कुटिलौ राक्षसौ, तन्मिथुनादेकं काममोहितं रावण| मवधीरिति युद्धकाण्डकथा सूचिता। दण्डकारण्यवासिऋषिपत्नीदर्शनाभिलाषमोहितसीतापीडाभिधानेनोत्तरकाण्डार्थोऽपि संक्षिप्तः । ननु मृगपक्ष्यादि। वधस्य व्याधकुलधर्मत्वात् कथमनपराधिनमेनं मुनिः शनुमहति ? वक्ष्यति राम एव वालिवधप्रस्तावे-"प्रमत्तानप्रमत्तान् वा नरामांसाथिनोभृशम् । वध्यन्ति विमुखांश्चापि न च दोपोऽत्र विद्यते॥” इति। सत्यम्; तथापि रतिपरवशतादशायां तद्वधो दोप एवति मुनेराशयः। सूचयति हिरतिपरवशतां काम मोहितमिति पदेन । अतएव भारते पाण्डं प्रति मुनि:-"अस्वय॑मयशस्यं त्वमनुतिष्ठसि भारत। कोहि विद्वान्मृगहन्याचरन्तं मैथुनं वने ॥” इति । नन्विदं भलयं गच्छतो मन्दरपथोपवर्णनम्, यदयमात्मनो वैलक्षण्यं परमातत्वं वक्तुमारभ्य स्वचरित्रवर्णनं करोति,ब्रह्मागमनवरप्रदानादेरेव तदर्थं वक्तव्यत्वात् । उच्यते-थूयतामवधानेन । “अर्थतःशब्दतो वापि मनाकाव्यार्थसूचनम्" इति दर्शितरीत्या काव्यार्थसूचनमियता ग्रन्थसन्दर्भेण क्रियते। तथाहि-"अक
दमम्" इत्यादिना पावनं समुद्रसेतुस्थलमुच्यते। "तस्याभ्याशे” इत्यादिना तत्तीरे मन्दोदर्या सह चरन्तं भोगान् भुञानम् अनपायिनं चतुर्मुखवरप्रदानेन पलब्धचिरायुष्कं चारुनिस्वनं रम्यवीणादिविनोदं क्रौञ्चयो राक्षसयोमिथुनं ददर्श धर्मबलेनालोकितवान् । "तस्मात्" इत्यादिना पापनिश्चयो निश्चित
For Private And Personal Use Only