________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वाल्मीकिना । “तस्येदम्” इति सम्बन्धमात्रेऽण् । सम्बन्धश्वात्र पुत्रत्वम् । एवं पूर्वोक्तरीत्या उक्तः गुरोर्नियतः परतन्त्रः भरद्वाजः मुनेस्तस्य वाल्मीकेः वल्कलं प्रायच्छत प्रादात् । दाणः यच्छादेशः । छन्दसि बहुलग्रहणादात्मनेपदम् । सम्बन्धसामान्ये षष्ठी । तस्मा इत्यर्थः ॥ ७ ॥ स इति । नियतेन्द्रियः निगृहीतेन्द्रियाऽपि स वाल्मीकिः शिष्यहस्ताद्वल्कल मादाय । विपुलं विशालम् । वनं सर्वतः पश्यन् सन् विचचार । हेति विस्मये, निगृहीतेन्द्रियस्य विपुल वनावलोकनं दैवकृतत्वाद्विस्मयनीयमित्यर्थः ॥ ८ ॥ तस्येति । भगवान् माहात्म्यवान् भगः श्रीकाममाहात्म्यवीर्ययत्रार्ककीर्तिषु ” इत्यमरः । शापानुग्रहसमर्थ इत्यर्थः । वाल्मीकिः तत्र वने, तस्य तीर्थस्याभ्याशे समीपे चरन्तं वर्तमानम् अनपायिनम् अविनाभूतम् । क्षणविरहासहिष्णु
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः । विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ॥ ८ ॥ तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥ ९ ॥ तस्मात्त मिथुनादेकं पुमांसं पाप निश्चयः । जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ १० ॥ तं शोणितपरीताङ्गं वेष्टमानं महीतले । भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥ ११ ॥ वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्रशीर्षण मत्तेन पत्रिणा सहितेन वै ॥ १२ ॥ कौञ्च मिथुनमिति प्रसिद्धम् । चारुनिःस्वनमिति रतिकालिकस्वरोत्तत्या रतिद्यत्यते । क्रौञ्चयोर्मिथुनं द्वन्द्वम् । पुंलिङ्गत्वमार्षम् । ददर्श ॥ ९ ॥ तस्मात्त्विति । पापनिश्चयः रतिसमयेऽपि हननकरणात् क्रूरनिश्चयः । वैरनिलयः सर्वजन्तुविषय सहजशात्रवयुक्तः निषादः तस्मान्मिथुनात्तन्मिथुन मासाद्य । ल्यब्लोपे पञ्चमी । पुमांसमेकमवयवं तस्य पश्यतः तं पश्यन्तं मुनिमनादृत्य । " षष्ठी चानादरे " इत्यनादरे षष्ठी । जघान हतवान् | ॥१०॥ तमिति । भार्या क्रौञ्ची निहतं व्याधहतम् अतएव महीतले भूतले वेष्टमानं घूर्णमानम् । शोणितपरीताङ्गं रुधिरव्याप्तशरीरं तं क्रौञ्चं दृष्ट्वा करुण श्रोतुः कारुण्यावहां गिरं रुराव करुणशब्दमकरोत् । ' ओदनपाकं पचति ' इतिवत् । अरोदीत् ॥ ११ ॥ वियुक्तेति । पतिना पत्या । नाभाव आर्षः । सहचारिणा सहचारशीलेन । ताच्छील्ये णिनिः । सहितेनेत्यनेन मनस्सङ्गतिरुच्यत इति न तेन पुनरुक्तिः । ताम्रशीर्षेण रक्तशिरसा । “उत्तमाङ्गं शिरः प्रायच्छत प्रादात् । नियतः सेवापरः | ७||८|| तस्येति । तस्य तीरस्याभ्याशे समीपवनप्रदेशे, चरन्तम् अनपायिनमविश्लिष्टम् । पुंल्लिङ्गत्वमार्षम् ॥ ९ ॥ तस्मादिति । तस्य पश्यन इत्यनादरे षष्ठी ॥ १० ॥ ११ ॥ वियुक्तेति । पत्रिणा शोभनपक्षवता सहितेन सङ्गतमनसा, सहचारिणेति पूर्वमुक्तत्वात सहितेनेति मनः साहित्यमुच्यते ।
For Private And Personal Use Only