________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पठेत् स सर्वपापैः पूर्वोत्तराचैः प्रमुच्यते । तदुक्तं रामोपनिषदि - " ब्रह्महत्यासहस्राणि वीरइत्याशतानि च । स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च । कोटिकोटिसहस्राणि उपपातकजान्यपि । सर्वाण्यपि प्रणश्यन्ति रामचन्द्रस्य कीर्त्तनात् ॥” इति ॥ ९५ ॥ एवं रामचरितपाठस्य मोक्षं फलमुक्त्वा आनु पति-कफलोक्तिपूर्वकं तस्य सम्बन्धिसम्बन्धपर्यन्ततामाह-एतदिति । आयुः प्रयोजनमस्पायुष्यम् । “स्वर्गादिभ्यो यद्वक्तव्यः" इति यत्प्रत्ययः । आख्यान माख्यायिकारूपम् एतद्रामायणं बालरामायणं रामस्यायनं रामायणम् । “अय गतौ” इति धातोर्भावे ल्युट् । रामचरितमित्यर्थः । रामः अय्यते प्राप्यते अनेन इति वा रामायणम् । रामः अयनं प्रतिपाद्यो यस्येति वा रामायणम् । “पूर्वपदात्संज्ञायामगः" इति णत्वम् । पठन्नरः वर्णाश्रमादिनियमं विना योऽपि कोऽपि सपुत्रपौत्रः दशपूर्वापरसहित इत्यर्थः । सगणः सभृत्यवन्धुः प्रेत्य आत्यन्तिकशरीरनाशं प्राप्य स्वर्गे परमपदे । “तस्या' हिरण्मयः कोशः एतदाख्यानमायुष्यं पठन् रामायणं नरः । सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ ९६ ॥ पठन् द्विजो वागृषभ त्वमीयात्स्यात् क्षत्रियो भ्रमिपतित्वमीयात् । वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोपि महत्त्वमीयात् ॥ ९७ ॥ इत्यार्षे श्रीरामायणे आदिकाव्ये बालकाण्डे श्रीरामायणकथासंक्षेपो नाम प्रथमः सर्गः ॥ १ ॥
स्वर्गो लोको ज्योतिषावृत्तः " इति तस्मिन्स्वर्गशब्दप्रयोगात् । विमुक्तसर्वपापं प्रति स्वर्गमात्रस्या फलत्वाच्च । महीयते पूज्यते "तं पञ्चशतान्यप्सरसां प्रतिधावन्ति शतं मालाहस्ताः शतं चूर्णहस्ताः " इति श्रुतेः ॥ ९६ ॥ अथ चातुर्वर्ण्यव्यतिरिक्तस्य नाधिकार इति सूचयन् वर्णविशेषनियतानि फलानि दर्शयति-पठन्निति । स्यादित्येतदव्ययं यद्यर्थे । इदं बाउरामायणं पठन् द्विजो यदि वावृषभत्वं वाचि श्रेष्ठ्यं वेदवेदाङ्गपारगत्वमीयात प्राप्नुयात् । "ई गतौ” इत्यस्माद्धातोः लिङ् । पठन् क्षत्रियो यदि भूमिपतित्वं चक्रवर्तित्वमीयात् । पठन् वणिग्जनो यदि पण्यफलत्वमीयात् पणं मूल्यं तदर्हतीति पण्यं क्रयविक्रयाई वस्तु तदेव फलं लाभो यस्य सः पण्यफलः, तस्य भावः पण्यफलत्वम् । “पणो द्यूतादिषूत्सृष्टे भृतौ मौल्ये धनेऽपि च " इत्यमरः । पण शब्दादर्द्धार्थे यत्प्रत्ययः । “अवद्यपण्य - " इत्यादिना पणतेर्यत्प्रत्ययान्तो निपातो वा। पठन् शूद्रोऽपि जनो यदि महत्त्वं स्वजातिश्रेष्ठत्वमीयात्। यद्वा स्यादि त्येतदल्पार्थेऽव्ययम् । स्यात् क्षत्रियः अल्पनृपतिः भूमिपतित्वमखण्डभूमण्डलेश्वरत्वमीयात् । एवमलपत्राह्मण इत्यादि नेयम् । यद्वा स्याच्छन्दः कथञ्चि संमितम् तुल्यम्, सर्ववेदार्थप्रतिपादकत्वात्तुल्यत्वम् ॥ ९५ ॥ एतदिति । एतदाख्यानम् आख्यायिकाम् आयुष्यम् आयुवृद्धिकरम् एतद्वामायणाख्यं प्रबन्धं पठन् पठनादेव पुत्रपौत्र सहितः इह भोगान् भुक्त्वा प्रेत्य स्वर्गलोके महीयते । " मह पूजायाम् । तत्र पूजितो मोइन इत्यर्थः ॥ २६ ॥ वर्णानां प्रतिनियन फलान्याहपठन्निति । स्यादिति यद्यर्थकमव्ययम् । पठन द्विजः स्यात् ब्राह्मणो यदि वागृषभत्वमीयात् प्रानुयात शब्दब्रह्मपारगो भवेत् । क्षत्रियः स्थात भूमिपतित्वं साम्राज्य
For Private And Personal Use Only