________________
Acharya Shri Kalassagarsun Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
वा:रा.म. ॥२७॥
दर्शयति-प्रदृष्टेति । लोकः जनःप्रदृष्टमुदितः। तदानीमासादिति शेपः। एवमुत्तरत्रापि । प्रदृष्टः संजातरोमाञ्चः। "दृपेलोंमसु"इति अनिटत्वविधानात् । टी.बा.का मुदित इति तन्मूलसन्तुष्टान्तःकरणत्वमुच्यते। तुष्टः समस्तकामलाभजनितप्रीतियुक्तः। यद्वा "इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता स० । यान्तं रामं छत्रावृताननम् ।" इत्यभिलषितलाभ उच्यते । पुष्टः "विपये ते महाराज रामव्यसनकर्शिताः। अपिवृक्षाः परिम्लानाः सपुष्पाकुरकोरकाः ॥"d इन्युक्तरामविरहजकार्यत्यागात् पुष्टः।सुधार्मिकः सुधर्मःरामभक्तिपूर्वकं कर्म, तच्चरतीति सुधार्मिकः। “धर्म चरति" इति ठक् । “त्रियो वृद्धास्तरुण्यश्च" इत्युक्तधर्मफलभागित्यर्थः । निरामयः शारीररोगरहितः। अरोगःमानसव्याधिरहितः। दुर्भिक्षभयवर्जितः । भिक्षाणां व्यद्धिः दुर्भिक्षम् । व्युद्धावव्ययी भावः । दुर्भिक्षात् भयं दुर्भिक्षभयं तेन वर्जितः । अनेन पूर्व सीताविशिष्टरामवियोगे प्रजानामामयादिकमासीत् । तदिदानी निवृत्तमित्युच्यते । M न पुत्रमरणं किञ्चिद्रक्ष्यन्ति पुरुषाः क्वचित् । नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ ८९॥ प्रहृष्टत्यादिरामाभिषेकदर्शनसन्तोषो न वर्णयितुं शक्य इत्याह कविः-प्रहृष्टमुदितो लोकस्तुष्टः पुष्ट इति । अथ प्रीतिकारितकैयसिद्धि दर्श यति--सुधार्मिक इति । शोभनो धर्मों विशिष्टविषयकैङ्कर्यमेव । अथ कैङ्कय॑विरोधिनिवृत्तिमाह-निरामयो ह्यरोगश्चेति । कैङ्कोंपकरणसमृद्धि माह-दुर्भिक्षेति ॥ ८८॥ अथ वर्णाश्रमधर्मपरिपालनप्रधानामुत्तरकाण्डकथा संगृह्णाति-न पुत्रेत्यादि । केचिदपि पुरुषाः क्वचित् कुत्रापि देशे किञ्चित् । कादाचित्कमपि पुत्रमरणं न द्रक्ष्यन्ति । न द्रक्ष्यन्तत्यिनेन ब्राह्मणपुत्र इव कदाचित्प्राप्तमपि परिहरिष्यतीति भावः। नार्यश्चाविधवाः नित्यं पतिव्रताश्च । पदमात्मवान् ॥” इति वक्ष्यमाणत्वात् । “ततः पश्यति धर्मात्मा तत्सर्व योगमास्थितः । पुरा यत्तत्र निर्वृत्तं पाणाबामलकं यथा ॥" इत्याद्युपरिवक्ष्यमाणत्वात । लोकः-सर्वजनः । प्रहृष्टः-संजातरोमाञ्चः । मुदितः-मुदितान्तःकरणः । तुष्टः-सर्वकामलाभजनितसन्तुष्टः, अनेन पूर्व सर्वकामसंपत्ती विद्यमानायामपि रामविश्लेषणा तुष्टस्य " इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महातयान्तं रामं छत्रावृताननम् ॥" इति प्रार्थितरामाभिषेक एव परमतुष्टिरित्यवगम्यते । पुष्टः-विषये। ते महाराज रामव्यसनकर्शिताः । अपि वृक्षाः परिम्लानाः सपुष्पाङ्करकोरकाः॥" इत्युक्तप्रकारेण रामविश्लेषकर्शितः सर्वोऽपि चेतनवर्गः इदानी रामसंश्लेषसंवा तिसर्वाङ्गोऽभूदित्यर्थः । सुधार्मिका-"खियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः । सर्वान् देवान् नमस्पन्ति रामस्याफे यशस्विनः ।।" इति इष्टदेवतानमस्का रादिरूपधर्मस्य फललाभात सुधार्मिकत्वोक्तिः । निरामयः मनःपीडारहितः । अरोगः व्याधिरहितः। दुर्भिक्षभयवर्जितः-दुर्भिक्षं समृद्धरभावः, तस्माद्भय दुर्भिक्ष भयम, तेन वर्जितः ॥४८॥ न पुत्रमरणमित्यादिना उत्तरकाण्डकथासंग्रहः क्रियते-न पुत्रेति । किविदपि कचित्कुत्रापि पुरुषाः पुत्रमरणं न द्रक्ष्यन्ति पितरि जीवति
For Private And Personal Use Only