________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भरद्वाजाश्रमं गत्वा भरतस्यान्तिकं समीपं प्रति हनूमन्तं व्यसयत व्यसृजत् । हनूशब्द उकारान्तोऽप्यस्ति । भरद्वाजेनात्र स्थातव्यमिति प्रार्थिते । तदिवसेन चतुर्दशवर्षपूर्तेः "पूर्णे चतुर्दशे वर्षे आगमिष्यामि" इति भरतं प्रत्युक्तेः सत्यत्वरक्षणाय हनूमन्तं प्रेरितवानिति भावः ।। ८५॥ पुनरिति । रामस्तत्पुष्पकं समारुह्य सुग्रीवसहितः सन् तदागमनकाले आख्यायिका पूर्ववृत्तकथाम् । “आख्यायिकोपलब्धार्था" इत्यमरः । पुनः पुनः जल्पन कथयन् अर्थात् भरतविषयाख्यायिका सुग्रीवेण जल्पन्निति गम्यते । नन्दिग्रामं भरतस्थानं तदा तस्मिन्नेव काले शीघ्रमित्यर्थः । ययौ प्राप ॥८६॥ नन्दिग्राम इति । अनघः सम्यगनुष्टितपितृवचनः । यद्वा" शिरसा याचतस्तस्य वचनं न कृतं मया" इत्युक्तपापरहित इत्यर्थः । यद्वा निरस्तसमस्त व्यसनः । “दुःखेनोव्यसनेष्वयम्" इति वैजयन्ती । रामः भ्रातृभिः सहितः। “कदान्वहं समेष्यामि भरतेन महात्मना । शत्रुघ्नेन च वीरेण त्वया
पुनराख्यायिका जल्पन सुग्रीवसहितस्तदा । पुप्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥८६॥ नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः। रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ ८७॥
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः । निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ ८८ ॥ Mच रघुनन्दन॥” इत्युक्तमनोरथपूर्ण इत्यर्थः । नन्दिग्राम जटां हित्वा शोधयित्वा । उपलक्षणमेतत् । “विशोधितजटःस्वातश्चित्रमाल्यानुलेपनः। महाई। वसनो रामस्तस्थौ तत्राश्रिया ज्वलन्॥” इत्युक्तरूपः सीतामनुप्राप्य सर्मापे प्राप्य । “रामरत्नमये पीठं सहसीतं न्यवेशयत्" इत्यायुक्तरीत्या दिव्यसिंहा सन सीतयाभिषेकं प्राप्येत्यर्थः । राज्य पुनरखाप्तवान् पितुर्वचनात्पूर्व प्राप्तं विशिष्य पुनरद्य प्राप्तमित्यर्थः ।।८७॥ रामस्य राज्यप्राप्तिकृतं लोकस्यातिशयं प्रवक्ष्यामि हुताशनम् ।। " इति भरतेन प्रतिज्ञातत्वात् । भरद्वाजाश्रमे पञ्चम्यां चतुर्दशवर्षसमात्यनन्तरं मुनिवचनेन प्रकदिनविलम्बस्य प्राप्तत्वात्स्वागमनबोध नाय हुनुमद्विसर्जनम् ॥ ८॥ पुनरिति । अपरेयुः सुग्रीवसहित इति विभीषणादीनामुपलक्षणम् । तत पुष्पर्क समारुह्य पुनराख्यायिका पूर्ववत्तविषयकथाम् " अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी" इत्यायुक्तप्रकारेण पुनर्जल्पन् कथयन् । सीताया इति शेषः । नन्दिग्राम ययाविति योजन ॥८६॥ नन्दिग्राम इति । रामः नन्दिग्रामे जटा भरतादिभिः सहितः हित्वा त्यक्त्वा सीतामनुप्राप्य सीतासादृश्यं प्राप्य मुनिवेषत्यागेन सीतामनुरूप प्राप्येति यावत । राज्यं पुनरवाप्तवान् पितृ वचनात्पूर्व प्राप्तं विशिष्य पुनः अद्य प्राप्त इत्यर्थः ॥ ८७ ॥ एतदन्तं चरितं वृत्तत्वेनोपदिश्य देवर्षिरतःपरमुत्तरकाण्डविषयं भविष्यत्वेनोपदिशति-प्रहृष्टेति । अनेन रावणवधानन्तरं रामे राज्यं प्रशासति सति वाल्मीकिना रामायणं कृतमित्यनुसन्धेयम् "प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्र
१ प्रष्टो मुदितः । इति पाठान्तरम् ।
For Private And Personal Use Only