________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सती पतिव्रता सीता अमृष्यमाणा रामोक्तपरुपवचनमसहमाना ज्वलनं लक्ष्मणानीतमग्निं विवेश ॥ ८०॥" ततोऽग्रिवचनात्सीतां ज्ञात्वा विगत कल्मपाम् । बभौ रामः संप्रहृष्टः पूजितः सर्वदेवतैः" इत्येव क्रमः। अन्यस्तु लेखकप्रमादकृतः। तत अग्निप्रवेशानन्तरम् । अग्निवचनात्सीतां विगत कल्मषां करणत्रयेऽपि दोषगन्धरहितां ज्ञात्वा रामः संप्रदृष्टः सन् बभौ सर्वदेवतैः पूजितश्च बभूव । अहो रामस्य धर्मापेक्षितेति स्तुतोऽभूदि। त्यर्थः ॥ ८१ ॥ कर्मणेति । महात्मनो महास्वभावस्य राघवस्य तेन कर्मणा रावणवधेन सचराचरं स्थावरजङ्गमसहितं सदेवर्षिगणं त्रैलोक्यं । त्रिलोकी। स्वार्थे प्यम् । तुष्टं सन्तुष्टमासीत् । स्थावरस्य सन्तोषः पल्लवोद्मादिनावगम्यते । “अन्तःसंज्ञा भवन्त्येते” इति श्रीविष्णुपुराणम् ॥८॥
ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् । बभौ रामः संप्रहृष्टः पूजितः सर्वदैवतैः ॥ ८ ॥ कर्मणा तेन महता त्रैलोक्यं सचराचरम् । सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ ८२॥
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह॥ ८३॥ अभिपिच्येति । यद्यपि सीतासमागमात् पूर्व विभीषणाभिषेकः, तथाप्यत्र क्रमो न विवक्षित इति ज्ञेयम् । रामः । विभीषयतीति विभीषणः । नन्द्यादि। वाल्ल्युः । शत्रुभयंकर इत्यर्थः । तं लङ्कायां चाभिषिच्य । समुद्रतीरेऽभिषेकः समुच्चीयते । यद्वा चोऽवधारणार्थः । अभिषिच्यैव कृतकृत्यः, न तु रावणं इत्वैव । लङ्कायां विभीषणमभिपिच्य, सुहिवनं छित्त्वा सहकारं स्थापयित्वेतिवत् । यता चोऽन्वाचये । प्रधानतयापवर्गमनुगृह्यानुप ङ्गिकतया राज्येऽभिषिच्येत्यर्थः । “शरीरारोग्यमर्थाश्च भोगांश्चैवानुपाङ्गिकान् । ददातिध्यायतां पुंसामपवर्गप्रदो हरिः॥” इति वचनात् । अभिषिच्य नेत्रातुरस्येव प्रतिकलासि मे दृढम्" इत्यादिकम् उवाच । अमृष्यमाणा-पातिव्रत्यविषयसंशयवचनमसहमाना सीता ज्वलनं ज्वलन्तमग्निं विवेश ॥ ८० ॥ तत
इति । अग्निवचनात् “विशुद्धभावां निष्पापां प्रतिग्रहीप्व" इत्येवंरूपात, गतकल्मषां स्वयं ज्ञात्वा लोकस्य च तथात्वं प्रत्याय्य। सीतामङ्गीचकारेति शेषः । केचिनु HI'ततोऽग्निवचनात्' इत्यस्मादनन्तरं "बभौ रामः संप्रहृष्टः" इत्यर्ध पाङ्कमेव पठित्वा ततः कर्मणा तेन' इति श्लोकं पठन्ति । तस्मिन् पाठे-विगतकल्मषां सीता ज्ञात्वा
संग्रहृष्टः सर्वदेवतैश्च पूजितो रामो बभूवेति योजना ॥८१॥ कर्मणेति । राघवस्य महता तेन कर्मणा रावणवधेन सचराचरम् चराचरप्रजासहितं त्रैलोक्यं तुष्टं तुतोष ॥ ८२ ॥ अभिषिच्येति । लङ्कायो लङ्काराज्यपद इत्यर्थः । कृतकृत्यः-" अहं हत्वा दशग्रीवं समहस्तं सबान्धवम् । राजानं त्वां करिष्यामि लङ्कायां राक्षसे
१ कर्मणा तेन महता त्रैलोक्यं सचराचरम् । सदेवर्षिगणं तुष्टं राघवस्य महात्मनः । बभौ रामः संप्रहः पूजितः सर्वदेवतैः ॥ इति तीर्थीयपाठक्रमः ।
For Private And Personal Use Only