________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पञ्चेति । अग्रेगच्छन्तीत्यग्रगाः, सेनाया अग्रगाः सेनाग्रगाः । अन्तादिवपाठेऽपि "अन्येष्वपि दृश्यते” इति डप्रत्ययः। तान् पञ्च पिङ्गलनेत्रप्रमुखान,M जम्बुमालिप्रमुखान् सप्त मन्त्रिसुतानपि हत्वा शूरमक्षम् अक्षकुमारं रावणद्वितीयपुत्रं निष्पित्य चूर्णीकृत्य,ग्रहणम् इन्द्रनित्प्रयुक्तब्रह्मास्त्रेण बन्धनम् ।समुM पागमत् प्राप्तः ॥७३॥ अत्रेणेत्यादिश्लोकद्वयमेकान्वयम् । वीरः सुरासुराप्रधृप्यरावणपालितलकाप्रधर्षणादिना प्रख्यातवीर्यः । महाकपिः स्वयमक्षत शएवानेकराक्षसहननक्षम इत्यर्थः । पैतामहात् पितामहदत्ताद्वरात् आत्मानं यदृच्छया प्रयत्नं विना अस्त्रेण ब्रह्मास्त्रेण उन्मुक्तं परित्यक्तं ज्ञात्वा यन्त्रिणः
आत्मानं रज्जुयन्त्रेण बहा इतस्ततः कृषत इत्यर्थः। राक्षसान मर्षयन्, तदुपराधान् क्षममाण इत्यर्थः । मैथिली मिथिलराजसुतां सीतामृते विना । कुल प्रभावात्तन्मात्रमदग्ध्वा लङ्कां पुरी दग्ध्वा रामाय प्रियं सीतादर्शनप्रियमाख्यातुं वक्तुं पुनरायात् ॥७४॥७५॥ सोऽभिगम्यति । अमेयात्मा अपरिच्छेद्य ।
पञ्च सेनाग्रगान हत्वा सप्त मन्त्रिसुतानपि । शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ ७३ ॥ अरणोन्मुक्तमात्मानं ज्ञात्वा पैतामहादरात् । मर्षयन राक्षसान् वीरो यन्त्रिणस्तान यदृच्छया ॥७॥ ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् । रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥७५॥
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् । न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ ७६ ॥ बुद्धिः। स हनुमान महात्मानं सीतावियोगज्वरेऽप्यवार्यधैर्य राममभिगम्य आभिमुख्येन प्राप्य । अनेन हनुमतः कृतकार्यत्वं द्योतितम् । प्रदक्षिणं च। कृत्वा । सीता तत्त्वतो यथावत् दृष्टेति न्यवेदयत् अकथयत् । सीता दृष्टेति वक्तुं शक्यत्वेऽपि दृष्टा सीतेत्युक्तिः रामस्य सीतादर्शनजीवनादिविषय संशयो मा भूदितीति वदन्ति । अन्ये त्वदृष्टेति प्रतिभासतेति दृष्टत्युक्तमिति । अपरे तु सन्तोषातिशयप्रकटनाय प्रथमं कृतकार्यनिर्देश इति ॥ ७६ ॥ सनीवसख्यवृत्तान्तं च निवेद्य च वाचा ज्ञापयित्वा वेदेही समाधास्य तोरणम् अशोकवनिकाबहिार चकारादशोकवनं च मर्दयामास ॥७२॥ पक्ष सेनेति । पव सेनाप्रगान सेनापतीन अक्षं रावणकुमारम्, निप्पिष्य चूर्णीकृत्य, ग्रहणं समुपागमत् इन्द्रजित्मयुक्तब्रह्मास्त्रेण बन्धन प्राप्तः॥७३॥ अखणेत्यादि श्लोकद्वयमेका वाक्यम् । यदनास्पामोघलया बन्धनमा पवघटिकानन्तरं तन्मोक्षश्च भवतीति ब्रह्मणा हनुमते बरोदत्तः, अतः पक्षघटिकानन्तरमेव ब्रह्माणोन्मुक्तमात्मानं ज्ञात्वा, यहछया-कार्यान्तरप्रसङ्गेन रावणदर्शनापेक्षया, यन्त्रिण आत्मानं बद्ध्वा स्थितान राक्षसान, वीर:-हन्तुं समयोऽपि, मर्षषन-क्षम कुर्वन, ततः-रावणदर्शनण्यापारा नन्तरं मैथिली सीताम् मते तदवस्थानप्रदेशं विना ला दग्ध्वा रामाय प्रियं प्रियवार्ताम् आख्यातुं वक्तुं पुनरायात् महाकपिरिति योजना ।। ७५ ॥ ५॥ स इति।
For Private And Personal Use Only