________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
यहां गुहावत्पर्वतमध्यवर्तिनी पुरी जगाम । चकारेण पुनर्गमनं समुच्चीयते ॥६५॥ ततः किष्किन्धागमनानन्तरम् हरिवरः आत्मनः कपिवरत्वनिश्चय वान्, हेमपिङ्गलः स्वर्णवत्पिङ्गलवर्णः. हर्षप्रकर्षेण निवृत्तवैवर्ण्य इत्यर्थः । सुग्रीवो गर्जितानुगुणकण्ठध्वनिः। अगर्जत् घोपं चकार महता पूर्वगजित विलक्षणेन । तेन नादेन हेतुना हरिवरो वाली गृहानिजंगाम ॥६६॥ अनुमान्येति । वाली तदा निर्गमनकाले, ताराम्-अद्य वनादागतेनाङ्गदेन सुग्रीवोराम सहायस्तिष्ठतीति कथितम् अद्य पराजितो निर्गतः पुनरागतः अतस्त्वद्गमनमनुचितमिति वारयन्ती ताराम् । अनुमान्य धार्मिकाग्रेसरोरामः कथं मामनपरा धिनं हन्यादिति परिसान्त्व्य सुग्रीवेण समागतः, अयुध्यतेत्यर्थः । राघवः महाकुलप्रसूतत्वेन धर्मसूक्ष्मज्ञः तत्र युद्धभूमो एनं परेण युद्धकृतमपि वालि नम्, तदा परेण युद्धकाले। चोऽवधारणार्थः । एकेनैव शरेण निजघान । द्वितीयशरप्रयोगे तदाभिमुख्येन तद्वधो दुर्लभ इति भावः।युद्धेऽभिमुखस्य बलं ।।
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः। तेन नादेन महता निर्जगाम हरीश्वरः ॥६६॥ अनुमान्य तदा तारा सुग्रीवेण समागतः। निजघान च तत्रैनं शरेणैकेन राघवः ॥ ६७॥ ततः सुग्रीववचनाद्धत्वा वालिनमाहवे। सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ ६८॥
सच सर्वान समानीय वानरान् वानरर्षभः। दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ ६९॥ वालिनमव गच्छतीति वरप्रसिद्धिः ॥६७॥ तत इति । सुग्रीववचनात्-"वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः" इति सुग्रीवप्रार्थनावचनात् । आहवे सुग्रीवस्य युद्धे वालिनं हत्वा । ततः वालिवधानन्तरं राघवः तद्राज्ये वालिराज्ये सुग्रीवमेव प्रत्यपादयत् स्थापयामासेत्यर्थः॥६८॥ अथ सुग्रीवस्य प्रत्युपकारं दर्शयति-स चेति । वानरपभः वानरराजत्वेनाभिषिक्तः स च सुग्रीवोऽपि जनकात्मजां दिदृक्षुः द्रष्टुमिच्छुः सन् सर्वान् नानादेशनिवासिनो वालिन हनिष्यतीति विश्वासं प्राप्तः, प्रीतमनाः कपिराज्यमचिरादेव मम हस्तगतं भविष्यतीति सन्तुष्टान्तरङ्ग इत्यर्थः। तदा तस्मिन्नेव काले किष्किन्धा गुहां पर्वतान्तरावकाशे तत्र निर्मितत्वात् किष्किन्धापि गुहाशब्देनोच्यते । जगाम चेति योजना ॥ ६५ ॥ नत इति । सुग्रीवः अगर्जत् सिंहनादं कृतवान् । तेन सिंह नादेन हेतुना हरीश्वरः वाली गृहान्निर्जगाम ॥ ६६ ॥ अनुमान्योत । तदा निर्गमनसमये तारामनुमान्य सुग्रीवं रामसहायमङ्गदमुखादवगत्य युद्धनिर्गमनं वारयन्ती ।
तारां धर्मज्ञो रामो ममापकारं न करिष्यतीत्यादिसान्त्ववचनैरनुमति प्रापय्य सुग्रीवेण सह युद्धाय समागतोऽभवत् , तत्रैनमेकेनैव शरेण निजघान ॥६॥ तत इति।। घासुग्रीववचनात् 'वालिन जहि काकुत्स्थ-" इत्येवरूपात आहवे वालिनं हत्वा तद्राज्ये वालिराज्ये सुग्रीवमेव प्रत्यपादयत् प्रतिष्ठापितवान् ॥ ६८ ॥ स चोति । सच
For Private And Personal Use Only