________________
Shri Mahavir Jain Aradhana Kendra
वा.ग.भ.
॥२३॥
www.kobatirth.org
उत्स्मयित्वति । महाबलः अपरिमेयबलः । महाबाहुः बलानुगुणकार्य करणसमर्थभुजः रामः अस्थि प्रेक्ष्य उत् स्मयन्या कियन्मात्रमेतदित्यनादृत्य स्मित्वा । इडार्पः । पादाङ्गुष्ठेन संपूर्णमन्यूनं दशयोजनम् । पात्रादित्वात्समाहार ङीवभावः । अत्यन्तसंयोग द्वितीया । उच्चिक्षेप उद्यम्य निक्षेप । “ व्यवहिताश्व” इति उपसर्गस्य व्यवहितप्रयोगः । वालिना पादेन क्षिप्तम्, रामेण तु पादाङ्गुष्ठेन उत्क्षिप्यते । तेन द्वे धनुःशते. अनंन दशयोजन मिति विशेषः ॥ ६३ ॥ चिरं युद्धपरिश्रान्तेन वालिना आर्द्र शरीरं प्रक्षिप्तम् त्वया तु स्वस्थेन शुष्कमित्यनाश्वसन्तं प्रति प्रत्ययान्तरमकरोदित्याहविभेदेति । अत्र राम इत्यनुपज्यते । पुनश्च सप्त सालान् सर्जकतरून तत्समीपस्थं गिरि रसातलम् अधोलोकेषु पष्ठलोकं च प्रत्ययं विश्वासं जनयन् प्रत्ययजननार्थम् । "लक्षणहेत्वो:--' इति शतृप्रत्ययः । एकेन महेषुणा विभेद । महेषुणेत्यनेन सुग्रीव कार्यसाधनाय रामेण तप्तपरशुधारणं कृतमिति
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महावलः । पादांगुष्टेन चिक्षेप सम्पूर्ण दशयोजनम् ॥ ६३ ॥ विभेद च पुनस्तालान सप्तैकेन महेपुणा । गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ॥ ६४ ॥ ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः । किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ ६५ ॥
Acharya Shri Kalassagarsuri Gyanmandir
ध्वन्यते ॥ ६४ ॥ तत इति । ततः सालादिभेदनानन्तरं तेनातिमानुपचरित्रेण विश्वस्तः अयमवश्यं वालिननक्षम इति विश्वासं प्राप्तः प्रीतमनाः अचिरा देव राज्यं उप्म्य इति सन्तुष्टचित्तः, महाकपिः आत्मानं कपिराजं मन्यमानः स सुग्रीवः रामसहितः सन् तदा तस्मिन्नेव काले किष्किन्धां किष्किन्धाख्यां उत्स्मयित्वेतिं । महाचादुः- बाह्वोर्महत्वं नाम-अङ्गुल्येकदेशेन लोकविरोधिसकल दैत्यादिहननशक्तत्वम् । तथा युद्धकाण्डे पिशाचान दानवान् यक्षान पृथिव्यां चैव राक्षसान् । अङ्गुल्यप्रेण तान् इन्यामिच्छन् हरिगणेश्वर ॥ " इति । महाबलः अपरिच्छेद्यवलो रामः जानिनोऽपि मुह्यन्ति किं वनकपिरित्युत्स्मयित्वा उदारमीषद्धास्यं कृत्वा अस्थिनिचयरूपं शरीरं प्रेक्ष्य दशयोजन परिमितं देशं संपूर्ण यथा तथा पादाङ्गुष्ठेन चिक्षेप क्षिप्तवान् ॥ ६३ ॥ बिभेद चेतेि । तदानीमाई शरीरमिदानीं शुष्क मिति सुग्रीवस्य विमर्शे सति पुनः प्रत्ययं विश्वासं जनयन् । हेतौ शतृप्रत्ययः । तदा तस्मिन् काले सप्तसालवृक्षान गिरि तत्समीपपर्वतं च रसातलं च । षष्ठो लोको रसातलम् । एकेन महेषुप्रयोगेणैव विभेद । राम इति शेषः । एकसालमात्र भेदने अस्य वालिना साम्यशङ्का जायते तन्माभूदिति तन्निवृत्त्यर्थमचोदिताना मप्यन्यसालगिरिप्रस्थादीनां भेदनमिति मन्तव्यम् ॥ ६४ ॥ तत इति । ततः सालभेदनान न्तरं नेन सालादिभेदनेन, विश्वस्तः विश्वासं प्राप्तः सर्वात्मना रामो दर्शनमात्रेण
For Private And Personal Use Only
टी.बा. कां
स० १
॥२३॥