________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सनिघानादुदुद्धपूर्ववृत्तान्ततया बाष्पं मुञ्चतेत्यर्थः । वानरराजेन सुग्रीवेण । " कर्तृकरणयोस्तृतीया" इति कर्तरि तृतीया । वैरस्य वालिविरोधस्य अनु कथनम् अनुकूलकथनं, प्रश्नानुकूलमुत्तरमित्यर्थः । वालिना सह तब कुतो वैरमासीदित्येवं प्रश्नः। तं प्रति वक्तव्यं सर्व रहस्यप्रकाशरूपं प्रणयात्स्नेहाद विसम्भादा। "प्रणयास्त्वमी। विनम्भयाच्भाप्रेमाणः" इत्यमरः। रामायावेदितम् आ समन्तादुक्तं कात्स्न्येनोक्तमित्यर्थः ॥५९॥ प्रतिज्ञातं चेति । चशब्दो भिन्नक्रमः । रामेण च तदा आवेदनानन्तरकाले वालिवधं प्रति प्रतिज्ञातम्, वालिवधप्रतिज्ञा कृतेत्यर्थः। भावे क्तः। वानरः सुग्रीवश्च तत्रऋश्य । मूके वालिनो बलम् “समुद्रात्पश्चिमात् पूर्व दक्षिणादपि चोत्तरम् । कामत्यनुदिते सूर्ये वाली व्यपगतलमः ।।" इत्यादिना वक्ष्यमाणं बलम् उत्साह वर्दनाय कथयामास ॥६०॥ सुग्रीव इति । सुग्रीवो राघवे विषये वीर्येण हेतुना नित्यं दर्शनमारभ्य सालभेदनपर्यन्तं मुहुर्मुहुः शङ्कित आसीच, अयं ।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति । वालिनश्च बलं तत्र कथयामास वानरः॥६०॥ सुग्रीवः शङ्कितश्चासी । नित्यं वीर्येण राघवे॥६॥राधवप्रत्ययार्थतु दुन्दुभेः कायमुत्तमम्। दर्शयामास सुग्रीवो महापर्वतसन्निभम् ॥६२॥ | वालितुल्यवीर्यो नवेति शङ्कितवानित्यर्थः । नित्यशब्दस्य वीप्सापरत्वं महाभाष्ये-" नित्यप्रहसितो नित्यप्रजल्पितः " इति । “मतिबुद्धि-"। इत्यादिसूत्रे शङ्कितादयोऽप्यर्थसिद्धाः इति सूचनात् कर्तरि निष्ठा ॥ ६१ ॥ राघवेति । तुशब्दो विशेषवाची । न केवलं शङ्कितोऽभूत्, किन्तु प्रत्ययार्थ । सामन्यद्दर्शयामास चेत्यर्थः । राघवप्रत्ययाथै रामविषयज्ञानार्थम्, रामबलविज्ञानार्थमित्यर्थः । रामविषयविश्वासजननार्थमिति वा ।"प्रत्ययोऽधीनशपथ
ज्ञानविश्वासहेतुषु" इत्यमरः । दुन्दुभेः दुन्दुभ्याख्यस्य वालिहतस्यासुरस्य उत्तमम् अशिथिलम् अतएव महापर्वतसन्निभम् उत्तममुन्नतं वा काय कायाकारास्थि दर्शयामास । रामायेति शेषः । वाली एतदस्थि पादाये न्यस्य ऊर्ध्वं क्षिपतीत्युक्त्वा दर्शयामासेत्यर्थः ॥ १२ ॥ सह सब वैरं कथमभूदित्येवंरूपं प्रतीत्यर्थः । रामाय प्रणयात् प्रत्युत्तरमावेदितम् साकल्येनोक्तमित्यर्थः ॥ ५९॥ प्रतिज्ञातमिति । तदा वैरवृत्तान्तश्रवणानन्तरकाले रामेण वालिषधं प्रति उद्दिश्य अवश्यं वालिनं बधिष्पामीति प्रतिज्ञातम् । वालिन इति । तत्र ऋश्यमूके । वानरः सुग्रीवः । वालिनो बलम् अरुणोदयमारभ्य 1 सूर्योदयात्पूर्वमेष चतुस्समुद्राभिगमनादिकं वालिपौरुषं रामस्योत्साहवर्धनार्थमकथयदित्यर्थः ॥ ६० ॥ सुग्रीव इति । अपिच राघवे राघवविषये वीर्येण हेतुना| नित्यं शङ्कितः सुग्रीव आसीत, रामस्य वालिहननसामर्थ्यमस्ति वा न वेति सुग्रीवो नित्यमशद्दिष्टेत्यर्थः ॥ ६१ ॥ राघवेति । राघववलपरिज्ञानार्थ महापर्वत सन्निभं दुन्दुभेः कार्य वालिना हतस्य दुन्दुभिनाम्नोऽसुरस्य देहं रामाय दर्शयामास, इदं शरीरं वालिना एतावदूर क्षिप्तमित्यक्त्वा तदर्शयामासेत्यर्थः ॥ ६ ॥
For Private And Personal Use Only