________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
समागमिष्यतीति स्वादूनि फलान्यास्वाद्यास्वाद्य परीक्ष्य निक्षिप्तवतीति प्रसिद्धिः । श्रमणी परित्राजिकॉम । " चतुर्थमाश्रमं प्राप्ताः श्रमणा नाम ते स्मृताः " इति स्मरणात् । । शबरी प्रति (वि) लोमस्त्रियम् । तदुक्तं नारदीय - “ नृपायां वैश्यतो जातः शबरः परिकीर्तितः । मधूनि वृक्षादानीय विक्रीणीते स्ववृत्तये ॥ " इति । " जातेरस्त्रीविषयात् -" इति ङीप् । अभिगच्छ अभिमुख्येन गच्छेति राघवं कथयामास । राघव इति पाठे तस्योत्तर लोकेनान्वयः । राघवेति पाठे हे राघव ! शबरीमभिगच्छेति अस्य रामस्य कथयामासेत्यर्थः । अत्र भागवतभक्तिमहिना हीनजातेरप्यभिगन्तव्यत्व मुक्तम् ॥ ५४ ॥ स इति । महातेजाः चरमपर्वनिष्ठजनलिप्स याति सन्तुष्टः स राघवः शत्रुसूदनः " गमिष्याम्यक्षयान् लोकान् त्वत्प्रसादादरिन्दम | इत्युक्तरीत्या तत्प्राप्तिप्रतिबन्धकनिवर्त्तकः । " सात्पदाद्योः " इति पत्वाभावः । शबरी नीचत्व सीमाभूमिभूतामभ्यगच्छदिति सौशील्यातिशयोक्तिः । सोभ्यगच्छन्महातेजाः शवरी शत्रुसूदनः । शवर्या पूजितः सम्यग्रामो दशरथात्मजः ॥ ५५ ॥ पम्पातीरे हनुमता सङ्गतो वानरेण ह । हनुमद्वचनाच्चैव सुग्रीवेण समागतः ॥ ५६ ॥
दशरथात्मजः रामः शबर्या सम्यक् पूजितः । पष्टिवर्षसहस्राणि वन्ध्यस्य दशरथस्य प्रसादेऽत्यन्तादरकृत भोजनादृप्यतिशयितं तत्कालमात्र समागत शबरी समर्पित सृष्टान्नमिति भावः । शरभङ्गादिभिरगस्त्यान्तैः कृतं पूजामात्रम्, शबर्य्या कृतं तु सम्यक् पूजा, तस्याश्वरमपर्वनिष्टत्वादिति भावः उक्तं हि - "मम मद्भक्तभक्तेषु प्रीतिरभ्यधिका भवेत् " इति । यद्वा सम्यक् पूजनं परीक्षितरसैः फलैभोजनम् । पूजित इत्यत्र "मतिबुद्धिपूजार्थेभ्यश्व" इति वर्त्तमाने क्तः । तथा च शबय्यैत्यत्र "तस्य च वर्त्तमाने " इति कथं न पष्ठीति चेत् ? अत्र केचिदाहुः- आर्थः षष्ठयभाव इति । अन्ये तु नायं वर्त्तमाने क्तः किन्तु भूते । तद्योगे च “न लोकाव्यय-" इत्यादिना षष्ठीप्रतिषेधात्तृतीयैवेति । वस्तुतः पूजास्य सञ्जातेति पूजितः । तारकादित्वादि तत्र प्रत्ययः । अनेन तृतीया भवत्येव ॥ ५५ ॥ एवं सत्यप्रतिज्ञत्वप्रधानमारण्यकाण्डचरितं संगृह्य मित्रकार्यनिर्वाहकत्वपरां किष्किन्धाकाण्डकथां संगृहाति-पम्पेति । पम्पानाम पद्मसरः तस्यास्तीरे तटकानने इत्युद्दीपक संनिधानोक्तिः । हनुमता प्रशस्तहनुना, वीरकिणाङ्कितमुखेनेत्यर्थः । वान रेण सङ्गतः संयुक्तः । राम इति शेषः । हेति हर्षे। विरहिजनप्राणापहारिणि पम्पोपवने स्वकामिनीघटकसमागमोऽयं चोरैर्वनेऽपद्धत सर्वस्वस्य स्वजन सोऽभ्यगच्छदिति । स्पष्टमेतत् । शबर्येति । सम्यक् पूजितः यथाविधि अर्ध्यादिफलसमर्पणान्तोपचारेणार्चितः॥५५|| पम्पातीर इत्यादिना किष्किन्धाकाण्डकथासंग्रहः
For Private And Personal Use Only