________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥२१॥
www.kobatirth.org
रावर्त्तते" इत्युक्ता मुक्तिरेव, न तु युद्धे अपलायनम् । तत्फलस्य स्वतः सिद्धत्वेन तदनुग्राह्यत्वाभावात् । न च संस्काराभावे सुकृतफलस्यानुत्पत्त्या तत्कर न तदनुग्राह्यत्वमेवेति वाच्यम्। तिरश्वो यज्ञानधिकारेण तस्य तदभावेन तस्य तदनुग्राह्यत्वात् । अङ्गिफलस्यैवाङ्गफलत्वेन उपासनाङ्गानां यज्ञदाना दीनामपि मुक्तिरेव फलमित्यभिप्रायेण 'या गतिर्यज्ञशीलानाम्' इत्याद्युक्तम् । यद्वा “इमान् लोकान् कामान् नीकामरूप्यनुसञ्चरन्" इत्यादिश्रुत्युक्तरीत्या मुक्तस्य सर्वलोकसञ्चारसम्भवात् या गतिरित्याद्युक्तं क्रममुक्तिपरमिदं वचनम् । ननु 'आत्मानं मानुषं मन्ये' इति मनुष्यत्वं भावयतः कथं परत्वासाधा रणचिह्नं मोक्षप्रदत्वमुच्यत इति चेन्न; "सत्येन लोकान् जयति" इत्युक्तस्य सर्वलोकजयस्थ मानुपत्वेऽप्यविरोधात् । एवं जटायुषं दग्ध्वा वने सीतां मार्ग माणः अन्वेषणं कुर्वन् । " मृग अन्वेषणे " इत्यस्माद्धातोः शानच् । “आ धृषाद्वा" इति विकल्पाण्णिजभावः । रूपेण शरीरेण विकृतं विकारयुक्तम् । तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ॥ ५३ ॥ स चास्य कथयामास शबरीं धर्मचारिणीम् । श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् ॥ ५४ ॥
Acharya Shri Kalassagarsuri Gyanmandir
"येनाङ्गविकारः” इति तृतीया। कुक्षिनिक्षिप्तमस्तक मित्यर्थः । घोरदर्शनं भयङ्करदर्शनम् । कबन्धं कबन्धाकारत्वात्कबन्धनामकं राक्षसं ददर्श । हेति खेदे । अमृतमन्वेषता कालकूटमलम्भीत्यर्थः । यद्यप्ययं दानव एव तथापि राक्षसप्रकृतित्वात्तथोक्तमिति ज्ञेयम् ॥५२॥ तमिति । महाबाहुः कबन्धभुजनिकर्तन क्षमभुजो रामः तं कबन्धं निहत्य तत्प्रार्थनया ददाह दग्धवान् स च कबन्धो दाहेन हेतुना स्वः स्वर्गे गतः । इदमर्धमेकं वाक्यम् ॥५३॥ स चेति । सः स्वर्ग गच्छन् कबन्धोऽपि, आस्य उपकारस्मृत्या क्षणमाकाशे स्थित्वा धर्मचारिणी गुरुशुश्रूषादिधर्माचरणशीलाम् आचार्याभिमानरूप चरमपर्व | निष्ठामित्यर्थः । " पादमूलं गमिष्यामि यानहं पर्यचारिषम्" इति वक्ष्यमाणत्वात् । धर्मे अतिथिसत्काररूपे निपुणां समर्था धर्मसूक्ष्मज्ञामित्यर्थः । रामः विकृतं कबन्धं संददर्शति संबन्धः ॥५२॥ तमिति । तं कबन्धं निहत्य ददाह च । स च स्वर्गतः स्वर्गप्राप्तवान. स्वर्गगमनयोग्यं स्वकीयं गन्धर्वरूपं प्राप्तवानित्यर्थः ॥ ५३ ॥ स कबन्धः हे राघव ! शबरी शबरस्त्रियं धर्मचारिणीम् श्रवणकीर्तनादिभगवद्धर्माचरणशीलाम् धर्मनिपुणाम् सामान्यविशेषरूपधर्मनिपुणाम् श्रमणी चतुर्थाश्रमं प्राप्ताम्। जितेन्द्रियत्व पूर्वकमोक्षोपयुक्ताचारनिष्ठामित्यर्थः । एवंभूतां भक्तामभिगच्छेनि अस्य रामस्य कथयामासेति योजना । प्रथमान्तपाठे त्वयमुत्तरशेषः ॥५४॥
10
For Private And Personal Use Only
टी.बा. कां
म० १
॥२२॥