________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शालायां सीताया अदर्शनेन तदन्वेषणं च चकारेण समुच्चीयते । निहतं मुमूर्षु गृधं जटायुषं दृष्ट्वा तद्वचनान्मैथिली सीतां हृता रावणेनापहृतां श्रुत्वा राघवः । शोकेन सन्तप्तः सम्यक् तप्तः सन् । सीताया अदर्शनेन तप्तः, जटायुमरणेन सुतरांतप्तः । अत एव व्याकुलेन्द्रियः कलुषितसर्वेन्द्रियः सन् विललाप परिश देवनमकरोत्, “विलापः परिदेवनम्" इत्यमरः । “राज्याझंशो वने वासः सीता नष्टा इतो द्विजः । ईदृशीयं ममालक्ष्मीनिर्दहेदपि पावकम् ॥” इति । अत्र राघवमैथिलीशब्दाभ्यां कुलद्रयावद्यकरमिदमपहरणमिति शोकातिशयहेतुरुच्यते। ननु विष्ण्ववतारभूतस्यास्य कथं शोकमोही सम्भवत इति ? संभवत एव पुरुषधोरेयस्य । यदि हि लोकोत्तरगुणविशिष्टवस्तुविनाशेऽपि तो नस्यातांतर्हि स कथं पुरुषधौरेयः स्यात्, तच्च कथमतिसुन्दरं स्यात् ? तयोरुभयोर्नमस्कार एव स्यात् । वक्ष्यति च महापुरुषगुणमणिवर्णनप्रकरणे-"व्यसनेषु मनुष्याणां भृशं भवति दुःखितः" इति । मारुतिश्च वक्ष्यति
ततस्तेनैव शोकेन गृधं दग्ध्वा जटायुषम् । मार्गमाणो वने सीतां
राक्षसं संददर्श ह । कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥५२॥ "दुष्करं कृतवान् रामो हीनो यदनया प्रभुः । धारयत्यात्मनो देहं न शोकेनावसीदति।" इति ॥५१॥ तत इति अर्द्धवयमेकं वाक्यम् । तेनैव शोकेन । गृधहननजनितेनैव शोकेन, सीतापहरणजशोकादप्यधिकेनेत्यर्थः । ततः व्याप्तो रामः गृधं तिर्यविशेषमपि जटायुषं पितृसखत्वात् शेषिकार्याय त्यक्तप्राणत्वाच दग्ध्वा ब्रह्ममेधेन संस्कृत्य, “यत्तु प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः। तत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह॥” इति वक्ष्यमाण त्वात्। मुक्तत्यक्तशरीरत्वाच्चेदं ब्रह्ममेघमहतीति। तथोक्तं नृसिंहपुराणे-"मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम । तस्मात्त्वं मत्प्रसादेन विष्णुलोकमवा प्स्यसि॥” इति सामान्यतश्चोक्तम् । यथाग्नेये--"विष्णोः कार्य समुद्दिश्य देहत्यागो यतः कृतः। ततो वैकुण्ठमासाद्य मुक्तो भवति मानवः।।" इति ।आश्व मेधिके च-"प्राणांस्त्यजति यो मत्यों मां प्रपन्नोऽपि मत्कृते । बालसूर्यप्रकाशेन ब्रजेद्यानेन मद्गृहम्॥” इति । अत्रापि वक्ष्यति-"या गतिर्यज्ञशीलाना माहिताग्नेश्च या गतिः। अपरावर्तिनां या च या च भूमिप्रदायिनाम् । मया तं समनुज्ञातो गच्छ लोकाननुत्तमान् ॥” इति । अत्रापरावृत्तिः"न च पुन निहतं कण्ठगतप्राणं श्रुत्वा, गृध्रमुखादिति शेषः । विललाप-पर्यदेवयत् । आकुलेन्द्रियः-आकुलानि शोकपरवशानि इन्द्रियाणि यस्य स तथा॥५१॥ तत इति । ततः प्रलापानन्तरम् तेनैव शोकेन रावणेन सीता हतेति निवेद्य मृतजटायुविषयशोकेनैव उपलक्षितः जटायुषं दग्ध्वा-विधिना संस्कृत्य, सीतां वने मार्गमाण रूपेण
For Private And Personal Use Only