________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥२०॥
वा.रा.भू. रवणादेशः अण् च । क्रोधमूर्च्छितः क्रोधेन मूर्च्छितः मूढः । "मूर्छितो मूढसोच्छ्रायो" इति वैजयन्ती । न चायं प्रत्ययो मूर्खतेर्निष्ठा मूर्त्त इति तद्रूपत्वात्, किन्तु मूर्च्छास्य सञ्जातेति मूर्च्छितः। तारकादित्वादितच । मारीचं नाम राक्षसं सहायं वरयामास ||४७|| वार्यमाण इति । अत्रान्ते इतिकरणं द्रष्टव्यम् । स रावणः । हे रावण! ते तेन बलवता खरादिषु दृष्टापदानवता बलीयसा रामेण विरोधो न क्षमो न युक्तः । “क्षमस्त्रिषु हिते योग्ये युक्ते शक्ते पटावपि " इति शब्दरत्नाकरे । इति सुबहुशो मुहुर्मुहुः वार्यमाणोऽभूत् ॥ ४८ ॥ अनादृत्येति । रावणः कालचोदितः कालेन मृत्युना प्रेरितः सन् । तद्वाक्यं मारीच वाक्यमनादृत्य सहमारीचः मारीचसहितः । "तेन सहेति तुल्ययांगे " इति समासः । " वोपसर्जनस्य " इति सहशब्दस्य सभावाभावः । तदा तस्मिन्नेव काले तस्य खरदूषणादिहन्तृत्वेन प्रसिद्धस्य रामस्य आश्रमपदमाश्रमस्थानम् । पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु" इत्यमरः । जगाम प्राप ॥ ४९ ॥ वार्यमाणः सुबहुशो मारीचेन स रावणः । न विरोधो वलवता क्षमो रावण तेन ते ॥ ४८ ॥ अनादृत्य तु तद्वाक्यं रावणः कालचोदितः । जगाम सहमारीचस्तस्याश्रमपदं तदा ॥ ४९ ॥ तेन मायाविना दूरमपवाह्य नृपात्मजौ। जहार भार्यौ रामस्य गृध्रं हत्वा जटायुषम् ॥ ५० ॥ गृच निहतं दृष्ट्वा तां श्रुत्वा च मैथिलीम । राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः ॥ ५१ ॥
तेनेति । मायाविना प्रशस्तमृगमायावता । " अस्मायामेघास्त्रजां विनिः " इति विनिप्रत्ययः । लोभनीयविचित्रकनक मृगवेपधारिणेत्यर्थः । तेन मारीचन प्रयोज्येन, नृपात्मजौ दशरथपुत्रौ दूरं यथा भवति तथा अपवाह्य अपसार्य दृश्यादृश्यतया रामम् रामस्वरतुल्यम्वरण लक्ष्मणं च दूरं निःसार्येत्यर्थः । मध्ये सीताविमोचनाय प्राप्तं जटायुषं जटायुर्नामिकं गृत्रं हत्वा मरणपर्यवसायिनी हिंसां कृत्वा रामस्य भार्या नित्यानपायिनीं सीतां जहार हतवान् । अत्र 'आस्यं व्यादाय स्वपिति' इतिवदपूर्वकाले क्त्वाप्रत्ययः । सीतां हृत्वा जटायुपं जपानत्यर्थः । अत्र मायानिर्मिता सीतैवापहता स्वयमग्रावन्तर्हिता. अतएव माया सीतायामग्निप्रविष्टायां निजसीताया उत्थानं यथाकथञ्चित् लोकापवादात्पुनः संत्यागश्चापपद्यत इत्याहुः ॥ ५० ॥ गृधं चेति । मृगरूपमारीच हननं पर्ण सन् । मारीचं नाम राक्षसं सीताहरणे सहायं वरयामासेति योजना ॥ ४७॥ वार्यमाण इति । हे रावण लोकवाधक ! अप्रमेयबलेन तेन रामेण विरोधी न क्षम इति बहुशां वार्यमाणोऽपि स रावणः कालचोदितस्सन् तद्वाक्यमनादृत्य सहमारीचः तस्य-खरदूषणहन्तुत्वेन प्रसिद्धस्य रामस्याश्रमपदं जगामेनि योजना ॥ ४८-५०॥ गृथं चेति ।
For Private And Personal Use Only
टी.बा. का स० [१
॥२०॥