________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. द्वन्द्वः। असुराः कबन्धादयः, तत्र दनुशब्दप्रयोगात् । यद्धा असून्प्राणान् रान्ति गृह्णन्ति इत्यसुराणि. असुराणि तानि च रक्षांसि चेति कर्मधारयः । तेषां टी.बा.का. ॥१९॥ वधाय वधं कारयितुं प्रार्थयितुं वा । “कियार्थोपपदस्य च कर्मणि स्थानिनः" इति चतुर्थी। अभ्यागमन् अभिमुखतया आगताः। न ह्याभिमुख्यादन्यत् । स०१
शरणागतिनामास्ति। “सत्सु कार्यवतां पुंसामलमेवाग्रतः स्थितिः"। यद्वा असुररक्षसां वने वसतस्तस्य असुररक्षसां वधायाभ्यागमन्नित्युभयत्राप्यन्वयः। काकाक्षिन्यायात् मध्यमणिन्यायादा ॥४१ ।। मुनीनां दुर्दशामालोक्य तद्विरोधिनिरसनं प्रतिज्ञातमित्याह-स तेषामिति । स रामः राक्षसानां वने दण्डकारण्ये तेषामृषीणां तथा प्रतिशुश्राव, यथा तैरथितं तथा प्रतिजज्ञ इत्यर्थः। “आश्रवसङ्गरसन्धाः प्रतिश्रवः संश्रवः प्रतिज्ञा च" इति हलायुधः ॥४२॥ मुनिभिरथितो रामेण प्रतिज्ञातश्च कोऽर्थ इत्यत्राह-प्रतिज्ञातश्चेति । रामेण प्रतिज्ञातोऽर्थस्तु. अग्निकल्पानामीपन्यूनमनिसादृश्यं प्राप्तानाम् ।
स तेषां प्रतिशुश्राव राक्षसानां तथा वने ॥४२॥ प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् । ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ॥४३॥ तेन तत्रैव वसता जनस्थाननिवासिनी।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ ४४॥ "ईपदसमाप्तौ कल्पन्देश्यदेशीयरः" इति कल्पप्रत्ययः । अतएव दण्डकारण्यवासिनामृषीणाम् । चतुर्थ्यर्थे षष्ठी। संयति युद्धे । “समुदायः स्त्रियां संयत् । समित्याजिसमिद्युधः" इत्यमरः । रक्षसां वधः। "कर्तृकर्मणोः कृति" इति कर्मण्यर्थे षष्ठी । प्रतिज्ञातं स्विति पाठे-सामान्ये नपुंसकम् । प्रतिज्ञातं वस्तु वध इत्यर्थः॥४३॥ अथ प्रतिज्ञानिर्वाहबीजमुपक्षिपति-तेनेति । तत्रैव जनस्थाने वसता तेन रामेण । जनस्थाने निवसतीति जनस्थाननिवासिनी । "सुप्यजातौ णिनिस्ताच्छील्ये" इति णिनिः। कामेनेच्छया रूपमस्या अस्तीति कामरूपिणी । शूर्पतुल्या नखा यस्याः सा शूर्पणखा । “पूर्वपदात मुनिभिः सह वने वसतस्तस्य रामस्याभ्यागमन् । समीपमिति शेषः । यद्वा अनादरे षष्ठी। हिंसानह रामस्य तापसरूपेणावस्थानमनादृत्य सर्वेश्वरोऽयं दुष्टान संहत्य
॥१०॥ अस्मान् रक्षिष्यतीति निश्चित्य राघवं शरणमागता इत्यर्थः ॥ ४१ ॥ स तेषामिति । स रामः राक्षसानां वने-राक्षसावासभूते बने । तेषाम् ऋषीणाम् तथा प्रार्थना
वचनं प्रतिशुश्राव अङ्गीचकारेत्यर्थः ॥ ४२ ॥ अङ्गीकृतमर्थमाह-प्रतिज्ञातश्चेति । रामेण अग्निकल्पानाम्-अग्निसदृशाना दण्डकारण्यवासिनामृषीणाम् । सन्निधाविनि पशेषः । संयति युद्धे प्राप्तकाले रक्षसां वधः प्रतिज्ञातश्चेति सम्बन्धः ॥ ४३ ॥ तेनेति । तेन रामेण नत्रैव दण्डकारण्यान्त नपञ्चवटयामेव वसता । जनस्थाननिवा
For Private And Personal Use Only