________________
Shrava Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsen Gyarmandir
अगस्त्यं च अगस्त्यभ्रातरमित्यत्र सन्धिकार्याभावो वाक्ये संहिताया अनित्यत्वात् । तथोक्तम्-“संहितैकपदे नित्या नित्या घातूपसर्गयोः। नित्या । समासे वाक्ये तु सा विवक्षामपेक्षते ॥” इति ॥३९॥ तनि०-विराधवधानन्तरमेव शरभङ्गादिदर्शनोक्त्या विराधवधस्य शरभङ्गादिदर्शने “रिक्तहस्तेन नोपया दाजानं दैवतं गुरुम् " इत्युक्तमुपायनत्वं व्यज्यते ॥३९॥ अगस्त्येति । अब राम इत्यनुषज्यते।रामः परमप्रीतः सन् । जगदेकवीरस्य स्वस्य सदृशायुधजाल लाभात् भृशं सन्तुष्टः सन् अगस्त्यवचनादेव, न तुस्वाभ्यर्थनात् । ऐन्द्रमिन्द्रेण दत्तम् "तस्येदम्" इति सम्बन्धसामान्येऽण् । “दत्तो मम महेन्द्रेण" इति वक्ष्यमाणत्वात् । इदं शरासनादित्रयसाधारणं विशेषणम् । शरा अस्यन्ते शिप्यन्तेऽनेनेति शरासनं धनुः । तच्च खड्गं च अक्षयसायको समर सीनि सहस्रशो विनियोगेऽप्यक्षयशरौ तूणी निषङ्गो जग्राह स्वीकृतवान् । वचनाजग्राहेत्यनेन खड्गादिकमगस्त्यो न स्पृष्टवान् किन्तु निर्दिष्टवानित्यु
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् । खङ्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥ ४०॥
वसतस्तस्य रामस्य वने वनचरैः सह । ऋषयोऽभ्यागमन सर्वे वधायासुररक्षसाम् ॥४१॥ च्यते ॥४०॥ एवं विरोधिनिरसनानुकूल्यदर्शनलब्धावसरमुनिजनाभ्यर्थनमाह-यसत इति । बने शरभङ्गवने तस्य वसतः, तस्मिन्वसतीत्यर्थः।। “षष्ठी च" इति योगविभागात् “यस्य च भावेन भावलक्षणम्" इत्यस्मिन्नर्थे पष्ठी। यद्वा षष्ठयर्थसम्बन्धसामान्यस्य उक्तविशेषे पर्यवसानम् । "शरभङ्गाश्रमे राममाभिजग्मुश्च तापसाः" इति वक्ष्यमाणत्वाच्च शरभङ्गवन इति सिद्धम् । सर्वे वैखानसवालखिल्यादय ऋषयः शरभङ्गाश्रमवासिनो वन चरैचित्रकूटपम्पावनप्रभृतिवनवासिभिः सह । वक्ष्यति-“पम्पावननिवासानामनुमन्दाकिनीमपि । चित्रकूटालयानां च क्रियते कदनं महत् ॥” इति । यद्वा वनचरैः सह वने वसतस्तस्य । “षष्टी चानादरे” इत्यनादरे षष्टी । “सविशेषणे हि-" इति न्यायेन तस्य वने वासमनाइत्येत्यर्थः । वक्ष्यति हि-“ते वयं भवता रक्ष्या भवद्विषयवासिनः। नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वर ॥” इति । यद्वा वने वसतस्तस्य समीपमित्युपस्कार्यम् । आसुराणि असुरप्रकृतीनि रक्षांसि । अनेन “विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः" इत्युक्तविभीषणव्यावृत्तिः। यदा असुराश्च रक्षांसि चेति शरभङ्गनामानं मुनिं ददर्श तथा सुतीक्ष्णादीनपि ददर्श ॥ ३९ ॥ अगस्त्येति । शरासनादि प्रतिगृहाणेत्येवंरूपागस्त्यवचनात् । इन्द्रः परमेश्वरी विष्णुः तस्येम मैन्द्रम् । निजाधलाभात परमप्रीतः । अक्षयाः सायकाः ययोस्तौ । तूणी-दषुधी च जग्राह ॥४०॥ वसत इति । सर्वे ऋषयः असुररक्षसां वधाय वनचरैर्वानप्रस्थ
For Private And Personal Use Only