________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू.
दी.बा.का
स०१
प्रतिज्ञा मर्यादा" इत्यमरः । जितेन्द्रियः मातृभरतादिप्रार्थनाव्याजे सत्यपि राज्यभोगलौल्यरहितः रामः । नगरे भवो नागरः । “तत्र भवः" इत्यण।। तस्य जनस्य, तत्र चित्रकूटे, पुनरागमनमालक्ष्य आलोच्य, चकारादृषिविप्रकारदर्शनाच तत्प्रदेशं विहाय एकाग्रः पितृवचनपालने दत्तावधानो विरोधि भूयिष्ठदेशत्वेन सावधानो वा दण्डकान् प्रविवेश । हेति विषादे । “एकसोऽनन्यवृत्तिरेकाग्रेकायनावपि" इति वैजयन्ती । सीतालक्ष्मणयोश्च प्रवेशी ऽर्थसिद्धः । दण्डकस्य राज्ञो जनपदो दण्डकः। "तस्य निवासः" इत्यण् । “जनपदे लुप्" इति लुप् । शुक्रशापेन वनतां प्राप्तः । कुत्सायां कन् । अवान्तवनबहुत्वाद्वहुवचनम् । वक्ष्यत्युत्तरकाण्डे-"शप्तो ब्रह्मर्षिणा तेन पुरा वै दण्डको हतः । ततःप्रभृति काकुत्स्थ दण्डकारण्यमुच्यते । तपाईं स्विनः स्थिता यत्र जनस्थानमतोऽभवत् ॥” इति। दण्डकामिति पाठे-दण्डको नाम राजास्यामटव्यामस्तीति दण्डका । " अर्शआदिभ्योऽच् "
प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं गक्षसं हत्वा शरभङ्गं ददर्श ह ।
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ॥३९॥ इत्यचप्रत्ययः । ततष्टाए । क्षिपकादित्वान्नंत्त्वम् ॥ ३८ ॥ एवमयोध्याकाण्डवृत्तान्तसङ्ग्रहेण पितृवचनपरिपालनरूपसामान्यधर्मः. शंषभूतस्य शेषि विषयक कार्यवृत्तिः, प्रपन्नस्य भगवत्पारतव्यं च प्रदर्शितम् । शत्रुघ्नवृत्तान्ताप्रदर्शनेन तस्य भागवतपारतन्त्र्यं च सूचितम् । अथ ब्राह्मणेषु विशिष्य सत्यप्रतिज्ञत्वप्रतिपादनपरमारण्यकाण्डवृत्तान्तं संगृह्णाति-प्रविश्य वित्यादिना । रामो महारण्यं दण्डकारण्यम्। प्रविश्य । तु विशपोऽस्ति तमाह-राजीव लोचनः अपूर्वसंस्थानविपिनविलोकनजनितकुतूहलेन विकसितनयनारविन्दः सन् । तेनैवोत्साहन विराधं राक्षसं हत्वा तद्धननमुपहारीकृत्य शरभङ्गं ददर्श । हेत्यैतिह्ये । तदनुज्ञया सुतीक्ष्णं चापीत्येकनिपातः समुच्चयार्थकः। अगस्त्यमगस्त्यभ्रातरं च ददर्श । नथति समुच्चये।अगस्त्यभ्राता सुदर्शनाख्यः। तदुक्तं सनत्कुमारसंहितायामगस्त्येन-“यवीयानेप मे भ्राता सुदर्शन इति स्मृतः।" इति । कुम्भसम्भवस्यागस्त्यस्य भ्राता सहपोपणादिति बोध्यम् । रामस्त्विति । नागरस्य जनस्य अयोध्यावासिनो जनस्य, चशब्दादरतस्य च । तत्र चित्रकूटे पुनरागमनमालक्ष्य पितुर्वचनपरिपालने एकाग्रचित्तः सन् दण्डकान दण्डकाख्यवनं प्रविवेश, अवान्तरवनवाहल्यावहुवचनम् । हेति प्रसिद्धौ ॥३८॥ प्रविश्य तु महारण्यमित्याग्भ्य आरण्यकाण्डकथासंग्रहः क्रियते। तुशब्दोऽवधारणे। राजीवलोचनो रामः । राजीवलोचनविशेषणं गमग महावनप्रवेशसंभावितराक्षसयुद्धारम्भार्जितं हर्ष द्योतयति । महारण्यं दण्डकाख्यं वनं प्रविश्य तु प्रविश्व
वश्य
For Private And Personal Use Only