________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
चकारात्तवसाने त्वैच्छदित्यर्थः । आदेशो नियोगः ॥ ३५॥ सर्वथा प्रपत्तेर्वेफल्यमनुचितमिति यावत्प्रतिबन्धकानिवृत्ति फलप्रतिनिधि दिशति स्मेित्याह-पादुके चेति ।चस्त्वर्थः। किन्तु भरताग्रजा फलप्रदानोचितसम्बन्धशीलः राज्याय राज्यं कर्तुम् । "क्रियार्थोपपदस्य च कर्मणि स्थानिन"
इति चतुर्थी । अस्य भरतस्य पादुके न्यासं स्वप्रतिनिधिं दत्त्वा, रामपादुके राज्यं कुरुतः अहं तयोः परिचारक इति भावयति दत्त्वेत्यर्थः । पुनः पुनर्भरतं तस्माद्देशान्निवर्तयामास । पुनःपुनरित्यनेन भरतस्य रामविरहासहिष्णुत्वं द्योत्यते । स्वार्थत्वनिवृत्तिपूर्वकपरस्वत्वापादनरूपत्वाभावात् न चतुर्थी, किन्तु सम्बन्धसामान्ये षष्ठी ॥३६ ॥ अथ प्रपत्रस्य यावत्प्रारब्धनिवृत्ति शेषिणि वृत्तिं दर्शयन्नाह-स काममिति । स भरतः कामं रामकेय मनोरथमप्राप्येव रामपादौ रामस्य पादुके । पादशब्दः पादुकोपलक्षकः । उपस्पृशन प्रत्यहं सेवमानः सन् रामागमनकांक्षया कदा राम आगमिष्य
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः। निवर्तयामास ततो भरतं भरताग्रजः॥३६॥ स काममनवाप्यैव रामपादावुपस्टशन् । नन्दिग्रामेऽकरोद्राज्यं रामागमनकांक्षया ॥ ३७ ॥ गते तु भरते श्रीमान्
सत्यसन्धो जितेन्द्रियः। रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रोदण्डकान प्रविवेश ह॥३८॥ तीति प्रत्याशया चतुर्दशवर्षरूपप्रतिबन्धकमुत्तीर्य कदा रामकैकय लप्स्य इति मनोरथमभिवर्धयन्नित्यर्थः । रामरहिततन्निवासस्यातिदुःखावहत यायोध्यां विहाय नन्दिग्रामे नन्दियामाख्ये अयोध्यासन्निहिते कुत्रचित् ग्रामे राज्यमकरोत् । तदाज्ञाकैर्यमकरोत् । परस्मैपदेन स्वस्य तस्मिन् फलत्व निवृत्तिरवगम्यते॥३७॥अयोध्याकाण्डप्रतिपाद्यपितृवचनपरिपालनसिद्धिं निगमयनुत्तरकाण्डार्थ प्रस्तौति-गते विति।अनादत्रयमेकं वाक्यम्।भरते गते तु विशेषोऽस्ति इति तभवाह-श्रीमान् प्रतिज्ञाभङ्ग भयजनितविषादविगमादुत्पन्नकान्तिविशेषः। सत्यसन्धः भरतनिर्बन्धेनाप्यविचाल्यप्रतिज्ञः।"सन्धा पादुके चेति । भरताग्रजः अस्य-भरतस्य, राज्याय-राज्यं कर्तुम । अहल्यादृष्टवैभवपादस्पृष्टे पादुके न्यासरूपेण दत्वा बहुविधैः सान्त्वेः पुनर्भरतं निवर्तयामासेति. सम्बन्धः । राज्यस्य निक्षेपरूपतया स्वत्वनिवृत्तिपूर्वकपरस्वत्वापादनविषयत्वाभावाच्चतुर्थ्या अप्रसक्तरस्येति सम्बन्धसामान्ये षष्ठी ॥३६॥ स काममिति। स भरतः कामम् अभिषेकार्थ रामप्रत्यानयनलक्षणं मनोरथमनवाप्यैव नन्दिग्रामे रामपादौ रामपादुके अनुदिनमुपस्पशन नमस्कुर्वन रामागमनकाबया नन्दिग्रामे स्थित्वा राज्यमकरोत् पालयामास ॥ ३७ ॥ गते त्विति । भरते गते सति श्रीमान-सर्वातिशयकान्तिमान् । सत्यसन्धः सत्यप्रतिज्ञः, जितन्द्रियः राज्यभोगलौल्यरहितः।
विषम-एवलक्षणस्य भरतस्य च क्रमेण श्रीरामक कार्य तापारतन्त्री च प्रदर्शितम् । शत्रुघ्नवृत्तान्ता प्रदर्शनेन तस्य भागवतपारतन्य सूचितम् ॥ १७ ॥
For Private And Personal Use Only