________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥१॥
पुरस्कृतः पूजितः। उचितमनेन क्रियत इति श्शाषित इत्यर्थः । “पूजितः स्यात्पुरस्कृतः" इति बाणः । तथाविधः सन् सुमहान आत्मा अन्तःकरणंटी .बा.का. यस्य तम्, सुमहात्मानं स्वतः प्रसन्नहृदयमित्यर्थः। सत्यपराक्रमं सत्ये पराक्रमोऽप्रच्युतत्वं यस्य तं रामम्, गत्वा तु प्राप्य, तु विशेषोस्ति । तस्याये स्थितिरेवालम्, याचनमतिरिच्यत इति भावः। प्रातरं राममयाचत् प्रार्थयामास, स्वाभीष्टमिति शेषः। याचेर्दिकर्मकत्वात् स्वरितेत्त्वादुभयपदी। क्रिया भेदादामशब्दस्य न पुनरुक्तता ॥ ३४॥ स्वाभीष्टमेवाह-त्वमेवेति । धर्मज्ञः ज्येष्ठे विद्यमाने न कनिष्ठो राज्यमहतीति धर्म जानन त्वमेव राजा नान्यः इति रामं वचोऽब्रवीत् । “अकथितं च" इति द्विकर्मकत्वम् । ननु भरतकृता प्रपत्तिः कुतो नाफलत्, अधिकारिखेगुण्यादा शरण्यवैगुण्यादा नाद्यः अपेक्षातिरिक्तस्याभावात् । नान्त्यः, तस्य सर्वगुणपरिपूर्णत्वात्: इत्याशय प्रबलप्रतिबन्धकस्य प्रारब्धस्य सद्भावात् न सा फलितेत्याह-रामोऽपीति।
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । रामोऽपिपरमोदारः
सुमुखः सुमहायशाः । न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः ॥ ३५॥ अपिशब्दः प्रतिविशेषणमन्वेति। रामोऽपिरमयतीति व्युत्पत्त्या स्वरूपरूपगुणैराश्रितचित्तरञ्जनस्वभावोऽपि परमोदारोऽपि स्वपर्यन्तापेक्षितार्थप्रदोऽपि “य आत्मदा बलदा" इति श्रुतेः । सुमुखोऽपि अर्थिजनलाभेन प्रसन्नमुखोऽपि सुमहायशाः अपि “नयर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति" इति श्रीविष्णुपुराणोक्तरीत्या महाकीर्तिरपि महाबलोऽपि आश्रितमनोरथपूरणे निपुणोऽपि रामः पितुरादेशात् बलवत्प्रतिबन्धकानेच्छत् । रामम् आर्यभावपुरस्कृतः विनयपुरस्कृतस्सन सुमहात्मा सु शोभना महानात्मा अन्तःकरणं यस्य तम् । अयाचत स्वाभिलषितमिति शेषः । " सत्स कार्यवता पंसा मलमेवामतः स्थितिः" इति न्यायेन सतामग्रतोऽवस्थानमात्रेण स्वाभिप्राये निवेदितऽपि दैन्यप्रख्यापनार्थ पुनरयाचदिति भावः ॥ ३४ ॥ अभिलषितमेवाह-त्वमे वति। धर्मज्ञः सर्वगुणश्रेष्ठे ज्येष्ठे सति कनिष्ठस्य राज्याईसा नास्तीत्यमुंधर्म त्वमेव जानासि, अतः त्वमेव राजेतिरामं वचोऽब्रवीदिति सम्बन्धः। रामोऽपीति । रामोऽपि ॥१७॥ रमयतीति व्युत्पत्त्या स्वरूपगुणराश्रितचित्तरञ्जकत्वस्वभावोऽपि। मुमुखः अर्थिजनलाभेन प्रसन्नमुखः। परमादारः याचकाभीष्टप्रदाननिरतः,महायशाः-"न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति " इति श्रीविष्णुपुराणोक्तप्रकारेण प्रसिद्धीतिरसन्नपि, महाबलः एकशरविमोचनेन सकलराक्षसनिरसनसमर्थः । अपिशब्दः सर्वत्र सम्वध्यते। एवम्भूतोऽपि रामः पितुरादेशानियोगात् राज्यं नैच्छ देनि योजना । पितुर्वचनगौरवात भरतेनार्थितं राज्याभिषेक नैच्छदित्यर्थः॥ ३५॥
For Private And Personal Use Only