________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥२॥
बा.ग.न. चित्रकूटे मया सह । पश्यन्ती विविधान् भावान् मनोवाक्कायसंयुतान् । " इति हि वक्ष्यति। लक्ष्मणस्य तु विशिष्टविपयङ्कर्यलाभजा प्रीतिः । वक्ष्यति “भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्व करिष्यामि जाग्रतः स्वपतश्च ते।।" इति । त्रयां रममाणाः इत्यनेनानन्दहेतुभेदेऽप्यानन्दांशे तौल्य ॐ मुच्यते "परमं साम्यमुपैति” “भागमात्रसाम्यलिङ्गाच्च" इतिवत् । रममाणा इति वर्त्तमाननिर्देशेन नैरन्तर्य्यमुक्तम् । वर्त्तमानार्थकस्याप्यस्य न्यवसन्निति भूतप्रत्ययान्त विशेषणत्वम् । “धातुमम्बन्धे प्रत्ययाः" इत्यनुशासनात् अग्निष्टोमयाजी पुत्रस्ते भविता' इतिवत् संभवृत्ति । अतएव देवगन्धर्वसङ्काशाः सन्तः देवगन्धर्वा मनुष्यगन्धवेभ्योऽधिकानन्दाः । यद्वा देवी च देवश्व देवी लक्ष्मीनारायणौ । “पुमान्स्त्रिया” इत्येकशेषः । गानं धारयतीति गन्धर्वः । " एतत्साम गायन्नास्ते " इत्युक्तः सर्वदा सामगानपरी मुक्तः । देवौ च गन्धर्वश्व देवगन्धर्वाः तत्सदृशाः देवगन्धर्वसंकाशाः । निभादित्वादुत्तरपदभूता
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा । राजा दशरथः स्वर्ग जगाम विलपन् सुतम् ॥ ३१ ॥
एव सन्तः सदृशवचनात थाहा मर:-म्युरुत्तरपदे त्वमी। निभसंकाशनी काशप्रतीकाशोपमादयः" इति ते त एव सन्तः साकेतवासिनः एव सन्तः सुखं न्यवसन् । वक्ष्यति " सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवती सुतीर्थाम् । ननन्द रामो मृगपक्षिजुष्टां जहाँ च दुःखं पुरविप्रवासात् ॥” इति यद्वा त एव सन्तः वनवासिन एव सन्तः, नागरिका अपि चिरं वनचरा इवावसन्नित्यर्थः । मुखग्लान्यादिभिस्तेषां वैदेशिकत्वगन्धोऽपि नाज्ञायतेति भावः । सुखं यथा भवति तथा न्यवसन् । कदाचिदपि दुःखलेशोऽपि नान्वभावीत्यर्थः । अत्र क्रियाभेदात् तच्छदद्वयप्रयोग इत्यध्याहुः । ते तीव जग्मुरिति क्रियापदमध्याहृत्य केचिद्योजयन्ति । अत्र देवगन्धर्वसंकाशा इति पद्गतेनोपमालङ्कारेण किञ्चिद्वस्तु ध्वन्यते - यस्तावत्स्वरूपज्ञानपूर्वकं भग वन्यनुरक्तो भवति तं भगवान् देव्या समागत्य दिव्यं विमानमारोप्यातिवाहिकगणैः सत्कार्य विरजां तीर्त्वा तिल्यकान्तारमासाद्यामानवेनानुज्ञाप्य दिव्य लोके महामणिमण्डपमुपेत्य दिव्यसिंहासनारूढः श्रिया सह मोदमानस्तद्रचितसर्वदे श सर्वकालसर्वावस्थोचितसकलविधङ्कयऽस्मै स्वानन्दसम मानन्दं दत्त्वा तेन सह यावत्कालमास्त इति ॥ ३० ॥ एवं लक्ष्मणस्य भगवच्छेषत्ववृत्तिं प्रतिपाद्य भरतस्य पारतन्त्र्यवृत्तिं दर्शयति-मृते तु तस्मिन्नित्या दिना । तदुपोद्वातन्वे नाह--चित्रेति । रामे चित्रकूटं तथा उक्तप्रकारेण गते सति दशरथो राजा पुत्रशोकेन पुत्रादर्शनजदुःखेनातुरः पीडितः सन् सुत त्रिति योजना ॥ २९ ॥ ३० ॥ रामे चित्रकूटं गते सति तदा पुत्रशोकातुगे राजा पुत्रं स्मृत्वा विलपन् परिदेवनं कुर्वनेत्र स्वर्ग जगाम ॥ ३१ ॥
For Private And Personal Use Only
टी.बा.कॉ. स० १
॥१६॥