SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir Mगङ्गीच्यते । “जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्" इति बहुवचनम्, पूजायाँ बहुवचनं वा। "अदितिः पाशान्" इतिवदवयवबहुत्वाभिप्रायेण वा बहुवचनम् । अत्र ' अग्रिहोत्रं जुहोति, यवागूं पचति ' इतिवदर्थक्रमेण नदीस्ती| वनं गत्वेति योजनीयम् । यद्वा अपूर्वकालेऽपि तवाप्रत्ययः 'आस्य व्यादाय स्वपिति' इतिवत् । यद्यपि “आस्यं व्यादाय स्वपिति संमील्य हसति इत्युपसंख्यानम्" इति वात्तिके स्थलद्वयमेषो । पात्तम् तथापि न्यासकृता " परावरयोगे च" इति पूर्वसूत्रे चकारात सर्वत्रायं प्रयोगः सम्भवतीत्युक्तम् । यद्वा ते वनेनत्यनेन गङ्गातरणमर्थसिद्धम् । नदीशब्दो यमुनापरः। यद्वा नदीः गङ्गायमुनामन्दाकिनी । मन्दाकिनीनाम चित्रकूटपरिसरे परिसरन्ती स्रवन्ती । सौकर्याय युगपदुक्तम् । यदा पूर्वार्ते स रामो लक्ष्मणेन सीतया च सह गुहेन हितः प्रहितः, सीतालक्ष्मणरामाः गुहेन गङ्गा तारिता इत्यर्थः । अतः पादसञ्चारेण वनगमनमत्रोक्तम् । रम्यमावसथं कृत्वा रममाणा वने त्रयः । देवगन्धर्वसङ्काशास्तत्र ते न्यवसन सुखम् ॥३०॥ भरद्वाजस्य शासनात् चित्रकूटमनुप्राप्य । प्रजाभरणशीलो भरद्वाजः। इत्थं निरुक्तमृगारण्यके-"एष एव बिभ्रदाजः प्रजावै वाजः ता एष विभर्ति यदि भर्ति तस्मात् भरद्वाज इत्याचक्षते" इति । यद्रा वाजं रेतः, वाजकरणमित्यादौ तथा प्रयोगात् । विभ्रद्वाजं भरद्वाजः नित्यब्रह्मचारीत्यर्थः । “भरद्वाजो लह त्रिभिरायुभिब्रह्मचर्यमुवा(पास" इति श्रुतेः। तस्य शासनानियमनात चित्रकूटे भवद्भिः स्थातव्यम्, तस्यायमेव मार्ग इत्येवरूपात् । अनु सदृशम् “पश्चात्सादृश्ययोरनु" इत्यमरः। राजकुमाराणां स्वेषामुचितमित्यर्थः। "सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः।यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥” इति वक्ष्यति । पश्चाद्भागे वा चित्राणि आश्चर्यावहानि कूटानि शिखराणि यस्यासो चित्रकूटः तम् । “आश्चर्यालेख्ययोश्वित्रम्" इत्यमरः । प्राप्य गत्वा ॥२९॥ रम्यं रमणीयं जलरामणीयकस्थलरामणीयकादियुक्तम् आवसथं पर्णशालारूपं गृहम् । "धिष्ण्यमोको निवसनं स्थानावसथवास्तु च" इत्यमरः । कृत्वा निर्माय । अत्र पर्णशालानिर्माणे लक्ष्मणस्य साक्षात्कर्तृत्वम् । इतरयोस्तु उचितदेशप्रदर्शनादिना प्रयोजककर्तृत्वम् । “समान कर्तृकयोः पूर्वकाले" इत्यत्र सूत्रे 'गृहेकत्ववदुद्देश्यगतत्वेन द्वित्वस्याविवक्षितत्वादनेकक्रियास्वपि क्त्वाप्रत्ययस्सम्भवति' इति न्यासकारोक्तेः क्त्वा प्रत्ययबाहुल्यम्। तत्र वने चित्रकूटोपान्तवने रममाणाः लीलारसमनुभवन्तः सन्तः सीतारामयोः पुष्पापचयसलिलक्रीडादिकं रतिः। “वैदेहि रमसे कच्चि ।। पवनं गत्वा चहृदका नदीस्ती| अनु पश्चात भरद्वाजस्य शासनात चित्रकूट प्राप्य रम्यमावसथं कृत्वा पर्णशाला कृत्वा नब रममाणा देवगन्धर्वसङ्काशाः सुखं न्यवस For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy