________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुक्तम् । शृङ्गिवेरपुरे गुड़मासाद्येत्यनेन दोषेऽपि भोग्यत्वरूपं वात्सल्यमुक्तम् । सूतं सुमन्त्रम् पारम्पर्येणानुवर्त्तमानमपि व्यसर्जयत् व्यसृजत् । स्वार्थे णिच । सद्यःप्रसूतवत्सवात्सल्यात् पूर्ववत्सं परिहरन्त्या घेनोरिव वात्सल्यातिशय उक्तः ॥ २७ ॥ स्वस्मिन्नाशालेशमात्रेण जनितं गुहविषयप्रेमा तिशयं दर्शयति-गुहेनेति । रामः गुहेन सहितः सन् लक्ष्मणेन सीतया च सहितः । गुहसन्धानानन्तरमेव लक्ष्मणसीताभ्यां नित्यानपायिभ्यां साहित्य ८ मासीत् । ततः पूर्व सिद्धमपि सदसत्प्रायमासीदित्यर्थः । यद्वा दृष्टान्तार्थ लक्ष्मणसीतासाहित्यकथनम्, तादृशसौहार्द (स्नेहो ) गुहेऽप्यासीदिति भावः । सहितः संहितः । “समोवाहितततयोः” इति मलोपः । सः रामः लक्ष्मणेन सीतया च सह गुद्देन हितः प्रहितः गङ्गां तारित इत्यप्याहुः ||२८|| ते वनेन इति श्लोकद्वयमेकान्ययम् । ते रामादयस्त्रय इत्यनेन गुहनिवर्त्तनं द्योतितम् । वनेन वनं गत्वा वनाद्वनं गत्वा । पञ्चम्यर्थे तृतीया, हेतौ तृतीया वा अनेन नूतनवनावलोकन कुतूहलित्वं नगरप्रवेशस्य स्वाधिकारविरुद्धत्वं च द्योत्यते । यद्वा अवनेन वनं गत्वा अन्योन्यरक्षणेन वनं गत्वेत्यर्थः । वक्ष्यति - गुहेन सहितो रामो लक्ष्मणेन च सीतया ॥ २८ ॥ ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः । चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ॥ २९ ॥
“ अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु । पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पाठयन् । अन्योन्यस्येह नो रक्षा कर्त्तव्या पुरुषर्षभ ||" इति । यद्वा अवनेन पितृवचनपरिपालनेन हेतुना वनं गत्वा, अवनेन लोकरक्षणेन हेतुना वा । रावणादिदुष्टनिबर्हणमुखेन लोकरक्षणार्थं हि तेषां वनगमनम् । यद्वा " तेवृ देवने " इति धातोर्भावे ल्युट् । तेवनेन देवनेन लीलया अनायासेनेत्यर्थः । मृगयाक्रीडनेन वा । अनयैव व्युत्पत्त्या तेवनं पादसञ्चार इति लभ्यते, सूतविसर्जनानन्तरं रथादवरुह्य पादसञ्चारेण वनं गत्वेत्यर्थः । यद्वा अवनेन सह वनं गत्वा मध्येमध्ये स्थउप्रदेशं वनं च गत्वेत्यर्थः । वनेन 1 जलेन सहितं वनमू, न तु मरुकान्तारमिति वार्थः । " पयः कीलालममृतं जीवनं भुवनं वनम् " इत्यमरः । बहूदकाः विपुलोदकाः अधिकोदका वा । " विपुलाने कयोर्बहुः " इति वैजयन्ती । नौतार्या इत्यर्थः । नदीः गङ्गाम् तीर्त्वा उत्तीर्य । "गङ्गा नदीनाम्" इति नदीमुख्यत्वात् निरुपपदनदीशब्देन च दूरमनुगतः। गङ्गाकूले वर्तमाने शृङ्गिवेरपुरे स्थितं निषादाधिपतिं प्रियमिम् । गुहमासाद्य रामविसर्जनार्थमागतं गङ्गाकूले व्यसर्जयत् अत्यजत । गृहमासाद्य गुहेन लक्ष्मणेन सीतया च सहितो रामः सुमन्त्रं व्यसर्जयदिति श्लोकद्वयमेकं वाक्यम् ||२७||२८|| तेवनेनेति । तेवनं पादचारणमिति संप्रदायः । ते त्रयः तेवनेन पादचारेण
For Private And Personal Use Only
टी.बा. कां
स० [१
॥ १५ ॥