SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यथाशब्द इवार्थः । " यथा तथेवैवं साम्ये ” इत्यमरः । रोहिणीनाम चन्द्रस्यासाधारणपत्नी । " वरिष्ठा सर्वनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्र मुहूर्तमपि दृश्यते ॥ " इति । न केवलं रामसौन्दर्याकृष्टानुगता, किन्तु कलङ्किनं रोहिणीव पातिव्रत्यस्वरूपप्रयुक्ता गतेत्यर्थः । अयमर्थोऽनसूयासमक्षं व्यक्तीभविष्यति || २६ || रामभक्त्यविशेषालक्ष्मणमीतावत् पौराणामप्यनुवृत्तिं दर्शयति- पौरोरिति । पुरे भवाः पौराः अनेन स्त्रीबालवृद्धाविशेष उक्तः । दूरमनुगतः इत्यनेन विरहासहिष्णुत्वोक्त्या पौराणां परमा भक्तिरुक्ता । " पुनर्विश्लेषभीरुत्वं परमा भक्तिरुच्यते " इति वचनात् । पौरेरित्यनेन तदेशवास एव रामभक्तितेतुरित्युक्तम् । पित्रा दशरथेन च । चशब्दोऽन्वाचये । अल्पमनुगत इत्यर्थः । आदारं हि तेनानुगतम् । पिवेत्यनेन पुत्रकृतवात्सल्यादनुगत इत्युक्तम् । एवं परत्वतौलभ्ये दर्शिते । अथ वात्सल्यसौशील्ये दर्शयति-शृङ्गि बेरपुर इति । धर्मों आश्रितवात्सल्यसौशील्ये आत्मा स्वभावो यस्य सः तथा । आश्रितवात्सल्यसौशील्यस्वभावो रामः शृङ्गिवेरपुरे शृङ्गिणः पौरैरनुगतो दूरं पित्रा दशरथेन च । शृङ्गिवेरपुरे मृत गङ्गाकूले व्यसर्जयत् ॥ हमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ २७ ॥ Acharya Shri Kailassagarsuri Gyanmandir कृष्णसारादयः तेषां बेराणि कृत्रिमशरीराणि । " प्रतिच्छन्दः प्रतिनिधिर्वैरं च प्रतिरूपकम् " इति वैजयन्ती । वञ्चनेन सजातीयमृगग्रहणार्थानि यस्मिन् तत् शृङ्गिबेरम् । तथात्वात् तदाख्ये पुरे गङ्गाकूले, शृङ्गिवेरपुरसन्निहितगङ्गातीर इत्यर्थः । एतेन गङ्गातीरत्वमात्रेण नोद्देश्यत्वम्, किन्तु भक्त सेवितत्वेनेत्युक्तम् । “सा काशीति न चाकशीति" इत्याद्यभियुक्तोक्तेः । निपादाः प्रतिलोमजातिविशेषाः । “निषादो मृगपाती स्यात् " इति वैजयन्ती । तेषामधिपतिरिति जात्यपकर्ष उक्तः । प्रीणातीति प्रियः तम् स्वस्मिन् प्रीतिमन्तमित्यर्थः । गूहति गोपयति वञ्चयति परस्वमिति गुहः । इगुपधलक्षणः कप्रत्ययः । तमू, जातितो वृत्तितो गुणतः कुठतश्च दीनमपि स्वस्मिन्नानुकूल्यमात्रेणादरणीयत्वमुक्तम् । निषादाधिपतिमासाद्येत्यनेन सौशील्यमुक्तम् । महतो मन्दैस्सह नीरन्ध्रेण संश्लेषो हि सौशील्यम्। धर्मात्मेत्यनेन महत्त्वमुक्तम् । आसाद्येत्यत्राभिविधिवाचिना आङा अर्थान्नैरन्ध्य स्त्रीलक्षणसंपना, पुरुषाणां रामः उत्तमः नारीणामुत्तमा वधूः श्री। 'सीता लाङ्गलपद्धतिः' तदुत्थत्वात् सीतेति निर्दिश्यते ॥ २६॥ अथ धर्मात्मा रामः परैः पित्रा दशरथेन For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy