________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२ ॥
बा.रा.भ. सर्वमुक्तिप्रसङ्ग इति चेन्नः य उपायापयाधिकारी तस्यैव फलं दिशति नानधिकारिण इति व्यवस्थापनात् । अधिकारश्च तत्प्राप्त्यपेक्षा साधनान्तर परित्यागश्वेत्युत्तरग्रन्थे सुव्यक्तम् । ननु वेदोपबृंहणमिदं रामायणमित्युक्तम् । धर्मोऽपि वेदार्थः । स कथं नोपबृंहितः, किञ्च इयता ग्रन्थेन वेदान्तार्थ उपबृंहितः, किमतः परेण ग्रन्थेन ? उच्यते-उक्ताननुक्तांश्च कल्याणगुणांस्तचरित्रनिदर्शनमुखेन प्रतिपादयितुमुत्तरग्रन्थः पूर्वभागोपबृंहणं च रामायण पुरुषाचारमुखेन हि सामान्यधर्मो विशेषधर्मश्वपबृंहितः । ननु तथापि कथं बालकाण्डकथा नोपदर्शिता ? मैवम् तत्र प्रदर्शनीयगुणविशेषाभावात् न च साप्यत्यन्तमप्रदर्शिता । "इक्ष्वाकुवंशप्रभवः" इत्यवतरणम्, “महावीर्यः" इति ताटकाताटकेयादिवधः, “धनुर्वेदे च निष्ठितः" इति कौशिकाधि गत निखिलदिव्यास्त्रवत्त्वम्, “श्रीमान्" इति वैदेहीलाभश्चेति बालकाण्डकथा सूचनात् । अथायोध्याकाण्डकथां प्रस्तौति-तमेवमित्यादिना । आदौ प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया । यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ॥ २० ॥
श्वोकद्वयमेकान्वयम् । दशसु दिक्षु रथो यस्य स दशरथः । अप्रतिहतरथत्वेन रामाय राज्यं दत्तम्, भीतिदत्तत्वाभावेन पुनरनादातव्यत्वमुक्तम् । मही पतिः अस्वामिदत्तत्वाभाव उच्यते । एवं दात्रदोषेण पुनरनाहरणीयत्वमुक्त्वा सम्प्रदानगुणेनाप्याह तमित्यादिना । तं प्रसिद्धम् । एवंगुणसम्पन्नं पूर्वोक्त सर्वगुणसमृद्धम्, सर्वस्य स्वामिभूतमिति यावत् । सत्यपराक्रमममोघपराक्रमम्, सर्वरक्षणशक्तमिति यावत् । ज्येष्ठं जन्मक्रमेणापि राज्यार्हम् । श्रेष्ठगुणैर्युक्तम् नीतिशास्त्रोतपादगुण्ययुक्तम्, सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः कामन्दकोक्ताः । प्रियं प्रीतिविषयम् । अनेन तात्कालिकप्रीतिदान व्यावृत्तिः । सुतं जन्मनैव राज्यार्हम् ||१९|| प्रकृतीनां प्रजानां हितैः हितकरणयुक्तम्, अनेन सर्वानुकूल्यमुक्तम् । एवंभूतं रामं प्रकृतिप्रियकाम्यया अमा त्यादीनां प्रीतिकरणेच्छया । इच्छायां काम्यचप्रत्ययः । " अ प्रत्ययात् ” इत्यप्रत्ययः । “अजाद्यतष्टापू" । प्रीत्या स्वप्रीत्या च । चकारोऽर्थसिद्धः । " गामश्वं पुरुषं जगत् " इतिवत् । मन्त्रिवृद्धैरालोचनपूर्वकं कृतत्वादप्रत्याख्येयत्वमुच्यते । " प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । छन्दः कारण गुह्येषु जन्मामात्यादिमातृषु " इत्युभयत्र वैजयन्ती । युवा चासौ राजा च युवराजः तस्य भावः कर्म वा यौवराज्यम् । त्राह्मणादित्वात् ष्यञ् । तेन पितरि | वंशप्रभव इति भगवदाविर्भावः सूचितः । महावीर्यः शत्रुनिबर्हण इनि च अस्त्रसम्पत्तिनाटकाव धादिस्सृचितः । लक्ष्मीवानिति सीतापरिणयसंक्षेपः । सत्यपराक्रम मित्यनुवादेन भार्गवलोकप्रनिबन्धादिव्यापारस्संक्षिप्तो वेदितव्यः । एवंगुणसंपन्नम् प्रशस्तासाधारणकल्याणगुणसंपन्नम् श्रेष्ठगुणैः- अभिषेकाईवरिष्ठगुणैश्च युक्तम् सत्यपराक्रमम्-अमोघपराक्रमम् ॥ १९॥ प्रकृतीनां प्राणिनां हितैौरिहामुत्र यशस्करेः कर्मभिर्युक्तम्, ज्येष्ठं सुनं रामं प्रकृतिप्रियकाम्यया प्रकृतीनां प्रियं कर्तुमिच्छया, पितरि
For Private And Personal Use Only
टी.बा.कां. स० [१
॥१२॥