________________
Shri Mahavir Jain Aradhana Kendra
२८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि -
अथोपोद्घातनिर्युक्त्यैव लौम्पकमतं निराकर्तुं द्वारपरिज्ञा
नाय उपोद्घातनियुक्तेविवेकमाह
अह बीया वरवरिआ, णिग्गमदारस्त होइ णिज्जुती । ती विदारगाहा, समासिआ सा इमा होइ ||३२||
व्याख्या - अथेति पूर्ववत् । द्वितीया avatar 'वीरं अरिट्ठणेमि' मित्यादिरूपा निर्गमद्वारस्य पड्विंशतिद्वारेषु तृतीयद्वारस्य निर्युक्तिर्भवति । तस्यामपि द्वितीयवरवरिका नियुक्तावपि या सभाष्यद्वारगाथा, सा इमा - अनन्तरवक्ष्यमाणा भवतीति गाथार्थः ॥ ३२ ॥
अथोद्दिष्टां निर्गमद्वारान्तर्गतां निर्युक्तिद्वारगाथामाहणिव्वाणं चिगागि, जिणस्स इक्खाग सेसगाणं च । सकहा थभ जिणहरे, जायग तेणाहि अग्गिति ||३३||
व्याख्या च हारिभद्रीयवृत्तितोऽवसातव्येति गाथार्थः । ३३ । अथ साम्प्रतमभिहितद्वारगाथायाः द्वारद्वयव्या चिख्यासया मूलभाष्यगाथामाह-
थूभसय भाउआणं, चउवीसं चैव जिणहरे कासी । सव्वजिणाणं पडिमा, वण्णपमाणेहिं णिअएहिं ||३४||
|
व्याख्या - स्तूपशतं भ्रातृणां भरतः कारितवानिति । तथा चतुर्विंशतिमेव जिनगृहे - जिनायतने, 'कासीति - कृतवान्' काः १ इत्याह-सर्वजिनानां प्रतिमाः वर्णप्रमाणैर्निजनिजैः - आत्मीयैरित्यर्थः इति गाथाथः || ३४ ॥
एतच्च व्याख्यानं हारिभद्रीय वृत्तिगतमव सातव्यं ।
For Private And Personal Use Only