________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
कादयो लोक विख्याताः-सम्यगदृष्टिलोकविश्रुताः । सम्यगदृशो हि जानन्ति-यदेते पौणिमीयकान्निर्गताः इति गाथार्थः ॥ अथ यया नियुक्त्या पूर्णिमापक्ष उन्मार्गो ज्ञायते, तां नियुक्तिमाह महुराए जिणदासो, इच्चाइआ णिगमस्स णिज्जुत्ती । तीए चउदसिमग्गो, उम्मग्गो पुण्णिमापक्खो ॥३१॥
व्याख्या-महुराए जिणदासो इत्यादिरूपा'महुराए जिणदासो, आभीर विवाह गोण उववासो ।
भंडीर मित्त वच्छे, (अबच्चे) भत्ते णागोहि आगमणं ॥१॥ ति गाथा निर्गमस्य षडविंशतिद्वारेषु तृतीयद्वारस्य नियुक्तिरपि उपसर्गनियुक्त्यन्तर्गता 'तोए' त्ति तस्यां नियुक्तौ चतुर्दशीमार्गःचतुर्दश्यामेव चतुर्थतपःप्रभृति पाक्षिककृत्यं मार्गः। एवं च सति तत्प्रतिपक्षः-पूर्णिमापक्ष उन्मार्गः। मार्गोन्मार्गयोश्च परस्परं प्रतिपक्षरूपत्वादित्यक्षरार्थः । भावार्थस्तु सकथानकः हारिभद्रीयवृत्तितोऽवसातव्यः । स च दिग्मात्रेण त्वेवं-'सोवि सावओ अमिच उद्दसीसु उववासं करेइ पोत्थयं च वाएइ, तेवि-तावपि कंबलशंबलनामानौ वृषभौ तं सोऊण भद्दया जाया जम्मि दिवसे सावगो ण जेमेति तं दिवसं तेवि ण जेमंति, तस्स सावगस्स भावो जाओ' त्ति श्रीहारिभद्र्यां । अत्र हि श्रीपार्श्वनाथतीर्थसम्बन्धिनो जिनदासश्रावकस्य चतुर्दश्यां नियमेनोपवासकरणे चतुर्दश्यामेव पाक्षिककृत्यमनादिसिद्धं भणितं, अर्थात् पूर्णिमापाक्षिककृत्याभ्युपगन्ता पूर्णिमापक्षः उन्मार्ग एवेति गाथार्थः ॥३१॥
For Private And Personal Use Only