________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
परिमितपरिग्रहेऽर्थादन्तभवेयुः । तदपि त्यजनबुद्ध या । यतः परिमितपरिग्रहोऽपि सर्वपरिग्रहत्यजनबुद्धिमतामेव भवति । अत एव स्वल्पः स्वल्पतरः परिग्रहः शोभनः । यदुक्तं -
'संसारमूलमारम्भास्तेषां हेतुः परिग्रहः ।
तस्मादुपासकः कुर्याद्, अल्पमल्पं परिग्रह ।।१॥ मिति योगशास्त्रे । एवं सुवर्णप्रतिमादिकमपि स्वल्पं स्वल्पतरमेव शोभनं सम्पद्यते, परिग्रहरूपत्वात् । तच्च न कस्यापि सम्मतं । तस्माद्यथा सुवर्णप्रतिमादिकं ( परिमित ) परिग्रहो न भवति, तथा साधनां धर्मोपकरणान्यपि परिग्रहो न भवति, धर्मोपकरणव्यतिरिक्तः परिग्रह इतिवचनात । परं साधनां मूर्च्छयाधिकवस्त्रपात्रादिधारणं धर्मोपकरणमेव न भवति 'मुच्छा परिन्गहो वुत्तो' त्तिवचनात् । अत एव साधनां स्वशरीरेऽपि मूर्छा न भवति 'अवि अप्पणो वि देहमि नायरंति ममाइअं तिवचनात् । वस्त्रादिमायाश्च शरीरमर्छाऽऽयत्तत्वादिति गाथार्थः।। __ अथ प्ररूपणयोदिष्टमार्गानाहअह जे परूवणाए, उम्मग्गा ते अ मग्गपडिवक्खा। चंदप्पहाइहितो, संजाया लोअविक्ाया ॥३०॥ __व्याख्या-'अथेति नामग्राहेण दूषितस्य दिगम्बरस्य भणनानन्तरं ये प्ररूपणया उन्मार्गाः, ते च मार्गस्य-तीर्थस्य प्रतिपक्षा एव, चन्द्रप्रभाचार्या दिभ्यः सञ्जाताः लोकविख्याताः । यावन्तः पूर्णिमापाक्षिकाभ्युपगन्तारः, तेषां सर्वेषामपि चन्द्रप्रभाचार्यः पितामहः । तेन ततो जाताः आञ्चलिकागमि
For Private And Personal Use Only