________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
'कप्पति णिगंथाण वा णिगंथीण वा तओ वत्थाइ' मित्यादिना साधनां वस्त्रादेः कल्प्यतापि भणिता। नहि कारणसामग्यभावे किंचित्कार्य सम्पद्यते । यदुक्तं'नाकारणं भवेत्कार्य, नान्यकारणकारणं ।
अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः क्वचित् ॥१॥ इति गाथार्थः ॥२७॥
अथवं नामग्राहेण दूषितो दिगम्बरः किं कृतवानित्याहइच्चाइ अ णिज्जुत्तिपमुहवयणेहिं दूसिओ खमणो । तित्थं व तेण (मओ) तेणं, मूलाओ आगमो चइओ॥२८॥
व्याख्या-इत्यादिनियुक्तिप्रमुखवचनैर्दूषितः क्षपणक:दिगम्बरः, तीर्थमिव तीर्थाभिमत आगमः अपिगम्यः, आगमोऽपि मूलात् त्यक्तः । पौणिमीयकादीनामिव अंशतोऽपि निजप्रक्रियारूपतयापि नाभ्युपगतः तेन । यद्यपि तीर्थाभिमतागमसम्मत्या दिगम्बरमतनिराकरणं प्रायोऽसम्भवि, तथापि देवोऽहन्नेवेत्यादिभणनेन अयमपि मार्गः सिद्धान्तोक्तो भविष्यतीति मुग्धजनभ्रान्तिनिरासार्थमवसातव्यमिति गाथार्थः ॥२८॥
अथ मुग्धजनभ्रान्तिकारणं दिगम्बरवचनं निराकुर्वन्नाह-- धम्मोवगरणमित्तं, परिग्गहो ता सुवण्णजिणपडिमा । परिमिअपरिग्गहम्मि, जइ हुज्जा देसविरईणं ॥२६॥
व्याख्या-धर्मोपकरणमात्रं यदि परिग्रह उच्यते तर्हि सुवर्णजिनप्रतिमा, उपलक्षणाद् रजतरला दिप्रतिमा तत्पूजोपकरणानि सौवर्णकलशादीनि च परिग्रहतया देशविरतीनां
For Private And Personal Use Only