________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधिकरणाभावात् । एतच्च व्यवहारतः छदमस्थगम्यत्वेन लिङ्गमवसातव्यम् । अथवा यथा क्रियारुचेः कार्य क्रियाकरणं, तथा तस्या अपि कारणं किं ? इत्याह-'किरिआईत्यादि । क्रियारुचेनिमित्तकारणं व्यक्तमिथ्यात्वं यदनन्तरोक्तं -'तत्थवि जमणाभोग'मित्यादिगाथायां भणितं, उपलक्षणात व्यक्तमिथ्यात्वमन्तरेण एकपुद्गलपरावतस्यापि भव्यस्य क्रियारुचिर्न भवति । तथा च क्रियायाः कारणं क्रियारूचिः, क्रियारुचेश्च कारणं व्यक्तमिथ्यात्वमेव । न चैवमव्यक्तमिथ्यात्वापेक्षया व्यक्तमिथ्यात्वं शोभनं सम्पन्न क्रियारुचिहेतुत्वादिति शंकनीयं, व्यक्तमिथ्यात्वस्य जैनप्रवचनविषयकक्लिष्टपरिणामात्मकत्वेन दीर्घस्थितिकमिथ्यात्वमोहनीयकर्मबन्धहेतुत्वात् सम्यक्त्वप्राप्तेः प्रतिबन्धकत्वाच्च। अनाभोगमिथ्यात्वस्य सदन्धन्यायेन सम्यक्त्वप्राप्तेरप्रतिबन्धकत्वमग्रे दर्शयिष्यते। परं सर्वत्राप्यनुक्तमपि तथाभव्यत्वं कारणतया मन्तव्यमेव । तच्च तत्तज्जीवस्वभावोऽनादिसिद्ध एवेति गाथार्थः ॥ ८५ ॥
अथ क्रियावादिष्वपि विशेषमाहतेसु वि अवड़पुग्गल-परिअट्टो जेसि हुज्ज संसारो। सम्मत्तजोग्गयाए, लहंति ते कइ सम्मत्तं ॥८६॥
व्याख्या-तेष्वपि-क्रियावादिष्वपि येषां भव्यानामपा - पुद्गलपरावर्तावशेषः संसारो भवेत् , तेषां सम्यक्त्वप्राप्तियोग्यतायां केचित् साक्षात् सम्यक्त्वं लभन्ते। अयं भावः-अपार्द्धपुद्गलपरावर्तावशेषसंसारस्य भव्यस्य सम्यक्त्वप्राप्तियोग्यता सम्पन्ना, परं
For Private And Personal Use Only