________________
Shri Mahavir Jain Aradhana Kendra
७
www.kobatirth.org
शतकम् ।
६७
सम्यक्त्वप्राप्तिः तथाभव्यत्व सहकृतकालादिसामग्री योगेन नानाप्रकारा भवति । तेन सम्यक्त्व प्राप्त्यनन्तरमपि केषाञ्चित् संसारोऽपार्द्धपुद्गलपरावर्तावशेषो भवति तेषां तथाभव्यत्वस्य तथैवानादिसिद्धत्वात् यावत् केषांचिदन्तर्मुहूर्तावशेषोऽपि
संसारो भवति, तत्कारणस्य तथाभव्यत्वस्य प्रतिभव्यं भिन्नत्वात् । तेन तदायत्तैव शेषकारणसामग्रीति गाथार्थः ॥ ८६ ॥ अथ सिंहावलोकनन्यायेन व्यवहारित्वमव्यवहारित्वं च कथं भवति ? इति दर्शयति-लोअववहारविषयं पत्तेअसरीरमेव जेसि सई । ते वहारिअभव्या, सेसा ववहारबाहिरिआ ॥८७॥
व्याख्या -- लोकव्यवहारविषयं प्रत्येकशरीरं - बादरपृथिव्यादिसम्बन्ध्येव भवति । तस्यैव इयं पृथिवी, इदं जलमित्यादिव्यवहारविषयत्वात् । कथं ? 'सई'ति । सकृद् एकवारमपि भवेत्, येषां भव्यानां ते व्यावहारिकभव्याः, शेषाः - निगोदाः सूक्ष्मपृथिव्यादयश्च व्यवहारबाह याः - अव्यावहारिकाः । सम्मतिस्तु 'इह द्विविधा जीवा' इत्यादिरूपेण प्राक् प्रदर्शितैवेति गाथार्थः ॥ ८७॥
अथाऽभव्यजीवाः सांव्यवहारिका उताऽसांव्यवहारिका वा १ इत्याशंकायामाह -
तेणं अभव्यजीवा, ण हुंति ववहारमाश्वयविसया | ते पुण पडिवडिआणं, अनंतभागो अ सव्वेवि ॥ ८८ ॥ व्याख्या - येन कारणेन व्यावहारिकाः उत्कर्षतोऽप्यावलिकाऽसंख्येयभागपुद्गलपरावर्तकालान्नियमेन सिद्धिगतिगामिनो
ने
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only