________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्
६५
प्राप्नुवन्ति । अयं भावः-व्यवहारिणां हि उक्ताऽसंख्येयपुद्गलपरावर्तकालादूल संसारस्थितिख्यवहारित्वभवनेनैव स्यात् । अव्यावहारिकाणामेव अनन्तपुद्गलपरावर्तस्थितेभणितत्वात । तच्च व्यवहारिणां न भवत्येव, आगमे निषिद्धत्वात् । सम्मतिस्तु दर्शितैव। तस्मादुक्ताऽसंख्येयपुद्गलपरावर्तकालादधिकसंसारावस्थितिरसांव्यवहारिकत्वमन्तरेण न स्यादेव । अव्यवहारिकत्वं तु व्यावहारिकाणां न भवत्येवेति परिशेषात् सिद्धिगतिगामिन एव भवन्तीति गाथार्थः ।। ८३ ॥ ___अथ व्यवहारिष्वपि विशेषमाहतेसु वि एगो पुग्गल-परिअट्टो जेसि हुज्ज संसारो। तहमवत्ता तेसि, केसिंचि अ होइ किरिअरुई ॥८४||
व्याख्या-तेप्वपि-व्यवहारिप्वपि जीवेष, येषामेकपुद्गलपरावर्तावशषः संसारो भवेत् , तेषां मध्ये तथाभव्यत्वात्-तथाभव्यत्वयोगेन केषांचित्क्रियारुचिः-मोक्षनिमित्तधार्मिकानुष्ठानकरणाभिप्रायो भवतीति गाथार्थः ।। ९४ ॥ ___अथ क्रियारुचेश्चिह्नमाहतीए किरियाकरणं, लिंगं पुण होइ धम्मबुद्धीए । किरिआरुईणिमित्तं, जं वुत्तं वत्तमिच्छत्तं ॥८॥ ___ व्याख्या-क्रियारुचेर्लिङ्ग-चिह्न, पुनर्वढे धूमवत् क्रियाकरणमेव मुक्तिनिमित्तमिति गम्यं । यत्तु स्वर्गादिप्राप्तिनिमित्तं चक्रवा दिपूजाप्राप्तिनिमित्तं वा क्रियायाः करणमभव्यानामपि भवति, तन्न क्रियावादित्वाभिव्यञ्जकं, मुक्तिप्राप्तिनिमित्तं क्रिया
For Private And Personal Use Only