SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ सूत्रकृतागसूत्र ... छाया-अथाऽपरो द्वितीयस्थ स्थानस्य धर्मपक्षस्य विभङ्गा, एवमाख्यायते, इइ खलु प्राच्यां वा ४ सन्त्ये कनये मनुष्या भवन्ति तद्यथा-अनारम्भाः अपरिग्रहाः धार्मिकाः धर्मानुगाः धर्मिष्ठाः यावद् धर्मेण चैव वृत्तिं कल्पयन्तो विहरन्ति, मुशीलाः सुव्रताः मुमत्यानन्दाः मुसाधवः सर्वतः पाणातिपातात् पतिविरता: यावज्जीवनम्, यावद् यानि चान्यैः तथाप्रकाराणि सावधानि अबोधिकानि कर्माणि परमाणपरितापनकराणि क्रियन्ते ततः प्रतिविरताः यावजीवनम् । तद्यथा-नाम अनगाराः भगवन्तः ईर्यासमिताः भाषासमिताः एषणासमिताः आदानभाण्डमात्रानिक्षेपणासमिताः उच्चारमस्त्रवणखेलसिंघाणमलप्रतिष्ठापनासमिताः मनःसमिता: क्यासमिताः कायसमिता: मनोगुमाः वचोगुप्ताः कायगुप्ताः गुप्ताः गुप्तेन्द्रियाः गुप्तब्रह्मचर्याः अक्रोधाः अमानाः अमाषाः पालोमाः शान्ता प्रशान्ताः उपशान्ताः परिनिवृत्ताः अनास्रवाः अग्रन्थाः छिन्नशोका निरूपलेयाः कास्यपात्रीव मुक्ततोयाः - शङ्ख इव निरञ्जनाः जीव इवापतिहतगतयः गगनतलमिव निरवलम्बना वायुरिचामतिवद्वाः शारदसलिलमित्र शुद्धहृदयाः पुष्करपत्रमिव निरूपलेपाः कूर्म इव गुप्ते. न्द्रियाः विहग इव विषमुक्ताः खङ्गिविषाणमिवैकजाताः भारण्डपक्षीवापमत्ताः कुञ्जरइव शौण्डीराः वृषभइव जातस्थामानः सिंह इच दुर्धर्षाः मन्दर इवामकम्पाः सागरइच गम्भीराः चन्द्र इव सोमलेश्याः मूर्यइव दीप्ततेजसः जात्यकाश्चनमिव जातरूपाः वसुन्धरा इव सर्वस्पर्शविसहाः मुहुतहुताशन इव तेजसा ज्वलन्तः। नास्ति खलु तेषां भगवतां कुत्राऽपि प्रतिबन्धो भवति : स प्रतिबन्ध चतुर्विधः प्रज्ञप्तः तद्यथा-अण्डजे वा पोतके वा अपग्रहे वा प्रग्रहे वा यां यां दिशमिच्छन्ति तां तां दिशमपतिबद्धाः भुचीभूता लघुभूताः अल्पग्रन्थाः संयमेन तपसा आत्मानं भावयन्तो विहरन्ति । तेषां च खलु भगवतामियमेतद्रूपा यात्रामातात्तिरभवत्, तद्यथा-चतुर्थभक्तं षष्ठं भक्तम् अष्टमं भक्तं दशमं भक्तं द्वादशं भक्त चतुर्दशं भक्तम् अर्धमासिकं भक्त मासिकं भक्तं द्वैमासिकं भक्तं त्रैमासिकं भक्तं चातुर्मासिकं भक्तं पाश्चमासिकं पाण्मासिकम्, अत उत्तरं च खलु-उस्क्षिप्तचरकाः निक्षिप्तचरकाः उत्क्षिप्त-निक्षिप्तचराकाः अन्तचरकाः मान्तचरकाः रूक्षचरकाः समुहानचरकाः संसृष्टचरकाः असंसृष्टचरका: तनावसंसृष्टचरकाः दृष्टलाभिकाः अष्टलाभिकाः पृष्टलामिकाः अपृष्टलाभिका: भिक्षालाभिका अभिक्षालाभिकाः अज्ञातचरकाः उपनिहितकाः संख्यादत्तयःपरिमित. पिण्डिपातिकाः शुद्धषणाः अन्ताहारा प्रान्ताहाराः अरसाहाराः बिरसाहाराः रूक्षाहारा तुच्छाहाराः अन्तजीविनः प्रान्तजीविनः आचाम्लिकाः पुरिमदिका निर्विक. तिकाः अमघमासाशिनः नो निकामरसभोजिनः स्थानान्विताः प्रतिमास्थानान्विताः उत्कटा सनिकाः नैषधकाः वीरासनिकाः दण्डायतिकाः लगण्डशायिनः अमावता: For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy