________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥श्री। सति शिरोमणि केशरबाई महासतीजी तथा विदुषि वसुमतिबाई
इन्द्रवज्रा छन्दः पर्यायतो ज्येष्ठतया स्वगच्छे चित्तैकधीरा सरलस्वभावा । श्री 'पार्वतीबाई' विशुद्धभावैः विराजते सर्व सतीषु मुख्या ॥१॥ प्रवर्तिनी 'केशरबाई गच्छे गच्छस्य कार्येष्वनिशं समर्था । चारित्रसंरक्षणहेतुकार्ये प्रवर्तते प्रेरयतीव साध्वीः ॥२॥ विचक्षणायाऽति विनीतबुद्धिः मोक्षस्य मार्गे सततं प्रयाति । विनीतभावेन करोति सेवां 'प्रभावतीबाई' गुणैगरिष्ठा ॥३॥
द्रुतविलम्बितछन्दः वसुमती शिवमागविधायिनी विमलभाव सतीषु शिरोमणिः । अमलशासनतत्वविकाशिनी विजयते गुणगौरवशासने ॥४||
अनुष्टुप् छन्दः द्योतते 'दमयन्तीयं संयमाराधनोद्यता । विनीतभावसम्पन्ना शुद्धा गुणवती सती ॥५॥
इन्द्रवज्रा छन्दः स्वकार्यदक्षा परकार्यदक्षा विवेकदक्षा विनयेषु दक्षा । सेवासु दक्षा यतनासु दक्षा श्री दीक्षिताबाई' सतीसु दक्षा ॥६॥ भद्राऽस्ति भावेन विनोतभावा सद्वर्तिनी या सरलम्वभावा । 'हीराऽभिधाना' रुचिरस्वभावा चकास्ति साचीगुणरत्नमाभिः ॥७॥ विशुद्धभावा सरलस्वभावा शीलप्रभावा विषये विरक्ता ।। समाधिभावं भजतीति नित्यं विनम्रभावा 'सविता' सती या ॥८॥ विनीतताभावसमाश्रयेण सेवाऽधिकारेषु परायणा या। 'प्रवीणबाई' विनये विवेके प्रावीण्यभावं विदधाति नित्यम् ॥९॥
विनयादिगुणोमिभिः संयुता सरला सती। 'उर्मिलाबाई मुदिता सेवाभावेषु वर्तते ॥१०॥
For Private And Personal Use Only