________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
सती शिरोमणि ताराबाई
इन्द्रवज्राच्छंद:" सती प्रधाना सुकृपा निधाना सतीषु सारा सुविचारधारा । विभाति गच्छे दरियापुरीये 'तारा सती' स्वच्छतराविभूतिः ॥१॥ " भद्राऽस्तिभावेन विनीतभावा सद्वर्तिनी या सरलस्वभावा । 'हीराऽभिधाना' रुचिरस्वभावा चकास्ति साध्वी गुणरत्नभाभिः ॥२॥ " यमेषु मग्ना नियमेषु लग्ना भग्नानयाकाऽपि तपस्तटान्तात् । सेवाशतैरञ्जयतीव साध्वीविभाति सेयं 'विमला' सतीषु ॥३॥
अनुष्टुपच्छंदः 'इन्दुबाई विभातीन्दोः कलेव विमला सदा । विनम्रभक्तिसम्पन्ना साध्वीमध्ये विराजते ॥४॥
इन्द्रवज्राच्छंद धर्मे सुशीला नियमे सुशीला व्रते सुशीला विनये सुशीला । चारित्रशीला यतिधर्मशीला नाम्ना 'सुशीला' जगति प्रसिद्धा ॥५॥ उषा विशेषा शुभधर्मलेश्या न दोषशेषा विनिवृत्तकामा । वाञ्छाविशिष्टा विनयादिवृत्तो यस्या 'उषा' ऽऽस्तेशुभनामधेयम् ॥६॥ हंसस्य चन्चुर्जलदुग्धभेदं करोति शास्त्रे सदसद्विवेकम् ।। कुर्यां कथं स्वं स्वजनं विबोध्य 'हंसाबाई' सती रूपमकारि किनु ॥७॥ न लोचने में स्वहिताय गेहे विचारयन्ती समवस्थिता या । प्रवज्यजाता शिवशुद्धमार्गे 'मुलोचनाबाई' सती प्रसिद्धा ॥८॥ सुखस्य दुःखस्य च कारणं य-जाते तु तस्मिन्नपि हर्षमेति । इत्थं स्वभावेन विराजते या चकास्ति 'हर्षाबाई' शुभनामतस्याः ॥९॥
वसन्ततिलका सम्यक्त्ववर्षणपरास्वपराऽर्थसिद्धयै औदायभावमवलंब्य मुदं वहन्ती । सेवा-सभक्ति-विनया-ऽम्बु-धरा धराया-वर्षिष्यतीति गुरुभिधुपिताऽस्ति 'वर्षां ।१०
बाई 'मनोरमा साध्वी, धर्मकायें मनोरमा । शुद्धभावेन संयुक्ता, शास्त्रस्वाध्यायतत्परा ॥११॥ 'इन्दिराबाई' साध्वी च, साध्वाचारपरायणा । विनम्रा भक्तिभावेन, षट्कायप्रतिपालिका ॥१२॥
For Private And Personal Use Only