SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१०] सूतसंहिता। द्वेषः स तामित्रः । तदिदमहितमिति ज्ञात्वाऽप्यज्ञवदपरित्यागोऽभिनिवेशः सोऽन्धतामिस्त्रः । पद्वा 'तमोऽविवेको मोहः स्यादन्तःकरणविनमः । महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा ।। मरणं ान्धतामिस्रं तामिखं क्रोध उच्यते । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः' इति । तस्मादविभागापन्नगुणत्रयादव्यक्तात्तमसः सकाशादन्तर्विभागस्थगुणत्रयास्मकस्य महतः सर्गो द्वितीयः । अत्रेदमुच्यते 'अव्यक्तादन्तर्हितत्रिभेदगहनात्मकम् । महन्नाम भवेत्तत्त्वं महतोऽहंकृतिस्तथा ॥ इति तस्माद्धहिविभागगुणत्रयावस्थस्याहमस्तृतीयः सर्गः । अत्रेदमुच्यते 'वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽयमहंकारो महत्तत्वादजायत' इति ॥ तत्र भूतादिनामकात्तामसादहंकाराद्रजसोपष्टब्धात्पञ्चतन्मात्राणां सर्गश्चतुर्थः । वैकारिकनाम्नः सात्त्विकादहंकाराद्रजसोपष्टब्धादेकादशेन्द्रियगणस्य सर्गः पञ्चमः । यदाहुः सांख्याः 'सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारात् । भूदादेस्तन्मानं स तामसस्तैजसादुभयम्' इति ॥ शैवास्तु सात्त्विकादहंकारान्मनसो राजसादिन्द्रियदशकस्य सर्गमाहुरिस्पेतावान्विशेषः । यदाहुः 'सात्त्विकराजसतामसभेदेन स जायते पुनस्नेधा । स च तैजसवैकारिकभूतादिकनामभिः समुच्ट्रसिति ।। तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि । भूतादेस्तन्मात्राण्येषां सर्गोऽयमेतस्मात्' इति ॥ इन्द्रियदशकाधिष्ठातृदेवसर्गः षष्ठः । षडिमे प्राकृताः सर्गा ईश्वरकर्तृकाः । उक्तं भागवते-~ 'आधस्तु महतः सर्गो गुणवैषम्यमात्मनः । द्वितीयस्त्वहमो यत्र ;व्यज्ञानक्रियोदयः॥ १ ख. त।। २ क. ख. 'स्थस्यमहतस्त। ३ क. ल. यत्रेद। ४ क. ख. दिन्य। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy