SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् । चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ॥ वैकारिको देवसर्गः पञ्चमो यन्मयं मनः । षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ॥ पडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु। इति । वस्तुगत्या प्रथमस्यापि तमःसर्गस्याबुद्धिपूर्वकस्य बुद्धिपूर्वकसर्गपञ्चकानन्तरमुपन्यासादुपन्यासक्रमानुसारेण षष्ठत्वमिति । अयमेवाबुद्धिपूर्वकस्तमःसर्गः । स्वसृष्टौ प्रजापतिनाऽपि प्रथमं सृष्टस्ततो वृक्षादिमुख्यः सर्गस्ततस्तिर्यक्स्रोतः पश्वादिः ।तत उर्ध्वस्रोतो देवादिः। ततोऽक्स्रिोतो मानुषस्ततो भूतप्रेतादिरिति षड्बैकृताः प्राकृतवैकृतात्मक एकः कौमार इति । तत्र प्रजापतेः स्व. सृष्टौ प्रथमं तमःसर्गमाह-अबुद्धिपूर्वकइति । अबुद्धिरविद्या सा पूर्वा यस्यास्मितादेः स तथोक्तः अथवाऽबुद्धिरननुसंधानं तत्पूर्वकोऽत एव ब्रह्मणः मादुर्भूत इत्याह नतु ब्रह्मा तं ससर्जेति । महाकल्पादिषु यथा परमात्मनः सका शात्पञ्चपर्वाऽविद्या प्रादुभवत्येवमवान्तरकल्पे स्वसृष्टौ ब्रह्मणोऽपि प्रादुरभूत् । भवान्तरकल्पेषु चातीतेण्वनन्तरेषु यथा प्रादुरासीदेवमस्मिन्नपि कल्प इति।।२।। तमो मोहो महामोहस्तामिस्रो धन्धसंज्ञितः॥३॥ अविद्या पञ्चपवैषा प्रादुर्भूता महात्मनः। पञ्चधाऽवस्थितः सर्गः प्रवृत्तस्तामसो द्विजाः ॥४॥ तान्येव पञ्चपर्वाण्याह-तमो मोह इति । तमादीनां स्वरूपं प्रागुक्तम् । तदा तु मोहादीनां विपर्ययाणामनुत्पन्नत्वात्ममुप्ततया वृत्तिरुक्ता । इहतु समुदाचरदृत्तिताऽपीत्येतावान्विशेषः । पञ्चधेति । तामसो यः सर्ग उक्तः स पञ्चपकार इत्यर्थः ॥ ३ ॥ ४॥ अन्तर्बहिश्च वेदज्ञास्त्वप्रकाशस्तथैव च । स्तब्धो निःसंज्ञ एवायमभवन्मुनिपुङ्गवाः ॥५॥ अधुना वृक्षादिमुख्यसर्गमाह-अन्तर्बहिरिति । अयमिति । स्थावरादिर्मुख्यः सर्गः । सर्गानुक्रमण्यामस्य क्रमे 'चतुर्थो मुख्यसर्गाख्यो मुख्यस्तु स्थावराभिधः । इति वक्ष्यमाणत्वात् । अयमिति प्रकृततमःपरामर्शे तु स्थावरसर्गस्य , ङ. अती २ ख. सर्गादिका For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy