________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
अध्यायः१०]
सूतसंहिता। पृथगनभिधानादनुपन्यस्तस्यैव तदनुक्रमणं स्यादिति । वृक्षादिर्हि च्छेदन आदानादिजनितदुःखसुखमात्रज्ञानवत्वेऽपि तत्पतीकारं तदुपायं चाऽऽन्तर बाबमप्यजानन्प्रकृष्टज्ञानाभावादप्रकाशः । नामापरिज्ञानानिःसंज्ञः व्यापारासमर्थत्वेन स्तब्धश्चोच्यते । अत एवेमं मुख्यसर्ग प्रकृत्य विष्णुपुराणम्
'बहिरन्तश्चाप्रकाशः संवृत्तात्मा नगात्मकः । मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम्' इति ॥५॥ तं दृष्ट्वा भगवान्ब्रह्मा सिमृक्षुः सर्वमास्तिकाः। - असाधक इति ज्ञात्वा पुनः सोऽपरमीश्वरः ॥६॥ असाधक इति । ऐहिकामुष्मिकहिताहिततदुपायतत्पतीकारविरहादप्यसाधकत्वम् । सर्गान्तरमाह-पुनः सोऽपरमिति ॥ ६॥
अमन्यतास्य वेदज्ञा ब्रह्मणो ध्यायतः पुनः। सर्गोऽवर्तत दुःखाद्यस्तिर्यस्रोतः प्रजापतेः॥७॥ पश्वादिः स तु विज्ञेयस्तिर्यक्स्रोतः समासतः ।
तं चासाधकमित्येवं ज्ञात्वाऽमन्यत्परं प्रभुः ॥ ८॥ तिर्यग्भूतं स्रोतो गमनमाहारसंचाराद्यर्थमस्येति तिर्यक्स्रोताः । हस्वत्वमार्षम् । समासत इति । व्यासतस्तु पुराणान्तरे तद्भेदा अष्टाविंशतिर्शिताः। सीन्तरमाह-तं चेति । अमन्यदमन्यत ॥ ७ ॥८॥
पुनश्चिन्तयतस्तस्य सात्त्विको वर्तत द्विजाः । ऊर्ध्वस्रोत इति ख्यातः सर्गोऽतीव सुखावहः ॥ ९॥ देवसर्ग:इति ख्यातः स तु सत्यपरायणः ।
तमप्यसाधकं मत्वा ब्रह्मा ब्रह्मविदां वेराः ॥ १०॥ सात्त्विकत्वादेव देवसर्गस्योर्ध्वस्रोतस्त्वम् 'ऊवं गच्छन्ति सत्त्वस्थाः' इति गीतामु । भोगभूमौ हि देवा वर्तन्ते न कर्मभूमौ । अतस्तदीयसर्गस्यासाधकत्वम् ॥ ९ ॥१०॥
अमन्यत परं सर्ग राजसं वैदिकोत्तमाः।
तस्य चिन्तयतः सृष्टिं प्रादुरासीच्छिवाज्ञया ॥ ११॥ १ ख. मप्यज्ञवत्प्रकृष्टः। २ स. ध्यानतः । ३ क ख. दुःखान्यस्ति । ४ १. ख. 'पते । ५ ङ. वरः ।
For Private And Personal Use Only