SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्ड अक्स्रिोत इति ख्यातः सर्गों विप्रास्तु मानुषः । पुनश्चिन्तयतस्तस्य ब्रह्मणः परमेष्ठिनः ॥ १२॥ राजसमिति । राजसो हि रागेण कर्मणि प्रवर्तमानोऽसौ साधको भविष्यतीति स्रष्टुरभिप्रायः । उक्तं हि-- "रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबधाति कौन्तेय कर्मसङ्गेन देहिनम्" इति । देवलोकादर्वाचीने मनुष्यलोके गमनमेषामित्यर्वास्त्रोतसो मनुष्याः । अ. वांग्या पुत्रपौत्रादिरूपप्रवाहरूपेण गमनमेषामिति । यद्यप्येतत्पश्वादावपि समानं तथाऽपि मनुष्येषु रूढोऽयं शब्दः । गच्छतीति गौरिति यथा पशुषु । साधकत्वेन मनुष्यसर्गे नास्त्यपरितोषः ॥ ११ ॥ १२ ॥ महादेवाज्ञया विप्राः सर्गो भूतादिकोऽभवत् । इति पञ्चविधा सृष्टिः प्रवृत्ता परमेष्ठिनः ॥ १३ ॥ भूतादिक इति । आदिशब्देन प्रेतपिशाचादयः । इति पञ्चविधेति । मुख्यसर्गो वृक्षादिः प्रथमः । तिर्यक्लोतः पश्चादिर्द्वितीयः । ऊर्ध्वस्रोतो देवसर्गस्तृ. तीयः । अक्स्रिोतो मनुष्यसर्गश्चतुर्थः । भूतादिः पञ्चमः । इति वैकृताः सर्गाः पञ्च । यस्तु प्रजापतेः प्रथमस्तामसः सर्गः सोऽबुद्धिपूर्वक इति बुद्धिपूर्वकवैकृतसर्गेषु न गणनीय इति । अत एव प्राकृतेष्वपि परमात्मनः सकाशादव्य. ताख्यस्य तमसः सर्गो न गणनीयः ॥ १३ ॥ सर्गस्तु प्रथमो ज्ञेयो महतो ब्रह्मणस्तु सः । द्वितीयो वेदविच्छ्रेष्ठास्तन्मात्राणां च भौतिकः ॥१४॥ अन्तर्बहिर्विभागगुणत्रयात्मनोर्महदहंकारयोरन्तर्बहिर्विभागलक्षणविशेषपरित्यागेन गुणत्रयविभागात्मनकीकरणान्महतः सर्गः प्रथमः । महतो यः सर्गों ब्रह्मणः परमात्मनः सकाशादित्यर्थः । सूक्ष्मभूतानां तन्मात्राणां शब्दादीनां सर्गो द्वितीयः ॥ १४ ॥ वैकारिकाख्यो वेदज्ञास्तृतीयः परिकीर्तितः। सोऽयमैन्द्रियकः सर्ग इत्येते प्राकृतास्त्रयः ॥ १५॥ १ ग. सर्गे विप्रस्तु । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy